अनूपपुरम् : फ्लाई ऐश उपयोगितायाम् अमरकंटक ताप विद्युत गृहं चचाई इस्यस्मै अलभत राष्ट्रियः पुरस्कारः
अनूपपुरम्, 05 मार्चमासः (हि.स.)। मध्यप्रदेशस्य अनूपपुरजिलायां स्थितं अमरकण्टक तापविद्युतगृहं चचायी इति स्थानम्, यत्र फ्लाई ऐश नामकस्य भस्मपदार्थस्य वैज्ञानिकरूपेण सुनियोजितरूपेण च अधिकतमोपयोगाय निरन्तरप्रयत्नाः क्रियन्ते। तेषां सतत्प्रयत्नानां मा
राष्ट्रीय पुरस्कार प्राप्तउ करते हुए


अनूपपुरम्, 05 मार्चमासः (हि.स.)।

मध्यप्रदेशस्य अनूपपुरजिलायां स्थितं अमरकण्टक तापविद्युतगृहं चचायी इति स्थानम्, यत्र फ्लाई ऐश नामकस्य भस्मपदार्थस्य वैज्ञानिकरूपेण सुनियोजितरूपेण च अधिकतमोपयोगाय निरन्तरप्रयत्नाः क्रियन्ते। तेषां सतत्प्रयत्नानां मान्यतारूपेण गोवा नगरे आयोजिते पञ्चदशे फ्लाई ऐश उपयोगिता पुरस्कार समारोह 2026 इत्यस्मिन् चत्वारि प्रतिष्ठितानि राष्ट्रीयसम्मानानि प्रदत्तानि।

अस्मिन् सम्मानसमारोहे प्रदेशस्य सतपुडा तापविद्युतगृहं सारनी तथा श्रीसिंगाजी तापविद्युतगृहं दोंगलिया अपि सम्मिलिते आस्ताम्। ऊर्जा पर्यावरण प्रबन्धन क्षेत्रयोः उत्कृष्टकार्यप्रोत्साहनार्थं प्रसिद्धया संस्था मिशन एनर्जी फाउण्डेशन इत्यनेन आयोजिते राष्ट्रीयसमारोहे एते सम्मानाः प्रदत्ताः।

मध्यप्रदेश पावर जनरेटिंग कम्पनी लिमिटेड इत्यस्या संस्थाया विद्युतउत्पादनस्य सह पर्यावरणसंरक्षणे प्रदूषणनियन्त्रणक्षेत्रे च स्वप्रतिबद्धतायाः उत्कृष्टं उदाहरणं प्रस्तुत्य राष्ट्रियस्तरे महतीं उपलब्धिं प्राप्तवती। अस्याः संस्थायाः अमरकण्टक तापविद्युतगृहं स्टेट सेक्टर पब्लिक यूटिलिटी 500 मेगावाटात् न्यून वर्गे पुरस्कृतम्, तथा श्रीसिंगाजी तापविद्युतगृहं द्वाभ्यां पुरस्काराभ्यां सम्मानितम्। सतपुडा तापविद्युतगृहं सारनी अपि स्टेट सेक्टर 500 मेगावाटतः 1500 मेगावाटपर्यन्त वर्गे फ्लाई ऐशस्य उत्कृष्ट असाधारण उपयोगाय पुरस्कृतम्।

श्रीसिंगाजी तापविद्युतपरियोजना द्वौ सर्वोच्चसम्मानौ प्राप्तवती। एते सम्मानौ फ्लाई ऐशस्य उत्कृष्ट असाधारण उपयोगाय तथा ओवरऑल चैंपियन फ्लाई ऐश मैनेजमेंट एक्सीलेंस इत्यस्य कृते प्रदत्तौ।

वित्तीयवर्षे 2024–25 मध्ये श्रीसिंगाजी तापविद्युतगृह दोंगलिया खण्डवा इत्यनेन कुलं 61,21,066 मीट्रिक टन ऐश सफलतया निस्तारितं उपयोगितं च। एषा उपलब्धिः 161 प्रतिशत उपयोगितादरं दर्शयति। एतत् न केवलं वर्तमान फ्लाई ऐशस्य शतप्रतिशत उपयोगितां सूचयति, अपि तु पूर्वसञ्चितस्य लीगेसी ऐश इत्यस्य अपि वैज्ञानिकनिस्तारणं प्रदर्शयति।

सतपुडा तापविद्युतगृहं सारनी इत्यनेन वित्तीयवर्षेषु 2023तः 2025 पर्यन्तं निर्धारितलक्ष्यं 119 प्रतिशत संचयी उपयोगितादरेण सुलभतया साधितम्, यत्र 34,12,785 मीट्रिक टन राख सफलतया निस्तारितः।

अमरकण्टक तापविद्युतगृहं चचायी इत्यनेन वित्तीयवर्षे 2024–25 मध्ये 204 प्रतिशत उपयोगितादरेण 6,66,438 मीट्रिक टन राख निस्तारितः। एवं त्रिभिः तापविद्युतगृहैः समष्टिरूपेण 1,02,00,289 मीट्रिक टन फ्लाई ऐश निस्तारितः।

पावर जनरेटिंग कम्पनी इत्यस्य प्रबन्धसंचालकः मनजीत सिंह उक्तवान् यत् एषः सम्मानः अस्माकं सम्पूर्णदलस्य समर्पणस्य तकनीकीदक्षतायाः पर्यावरणीय उत्तरदायित्वस्य च फलम् अस्ति। तापविद्युतगृहेषु शतप्रतिशताधिकदरेण फ्लाई ऐश उपयोगिता प्राप्तिः अस्माकं कृते अत्यन्तं गौरवस्य विषयः।

डायरेक्टर टेक्निकल सुबोध निगम अपि पावर हाउस प्रमुखान् तकनीकीदलान् च अभिनन्दन् उक्तवान् यत् संस्थया स्वीकृता प्रगतिशील तकनीक, कुशलप्रबन्धनं तथा पर्यावरणमानकानां प्रति सजगदृष्टिकोणः पावर जनरेटिंग कम्पनीं फ्लाई ऐश प्रबन्धन क्षेत्रे राष्ट्रियानाम् अग्रणी संस्थानानां श्रेण्यां स्थापितवान्।

हिन्दुस्थान समाचार