अमित शाहोऽद्य ओडिशां प्राप्स्यति
भुवनेश्वरम्, 05 मार्चमासः (हि.स.)।भारतस्य केन्द्रीयगृह तथा सहकारितामन्त्री अमित शाह द्विदिवसीयभ्रमणेण अद्य ओडिशाराज्यं प्राप्स्यति। स अद्य सायंकाले भुवनेश्वरं आगमिष्यति तथा श्वः प्रातः कटकस्य मुंडलीस्थले आयोजिते सीआईएसएफ स्थापना-दिवस-समारोहे भागं ग
अमित शाह   फाइल फोटो


भुवनेश्वरम्, 05 मार्चमासः (हि.स.)।भारतस्य केन्द्रीयगृह तथा सहकारितामन्त्री अमित शाह द्विदिवसीयभ्रमणेण अद्य ओडिशाराज्यं प्राप्स्यति। स अद्य सायंकाले भुवनेश्वरं आगमिष्यति तथा श्वः प्रातः कटकस्य मुंडलीस्थले आयोजिते सीआईएसएफ स्थापना-दिवस-समारोहे भागं ग्रहीष्यति।

स्वस्य अस्मिन् भ्रमणे केन्द्रीयमन्त्री खोरधाजिलायाः जतनीस्थले नेशनल फॉरेंसिक साइंसेज यूनिवर्सिटी तथा सेंट्रल फॉरेंसिक साइंस लेबोरेटरी इत्योः आधारशिलां स्थापयिष्यति। तेन सह स भुवनेश्वरनगरे एनएफएसयू संस्थायाः ट्रांजिट-कैम्पसस्य आभासीय-उद्घाटनम् अपि करिष्यति।

ततः अनन्तरं अमित शाह भुवनेश्वरस्य आईडीसीओ प्रदर्शनी-मैदानस्थले नूतन-अपराधिक-कानूनानां (न्याय-संहिता) विषये आयोजितस्य प्रदर्शनी-कार्यक्रमस्य उद्घाटनं करिष्यति तथा बहूनां परियोजनानां आधारशिलाः स्थापयिष्यति, केषाञ्चित् परियोजनानां उद्घाटनम् अपि करिष्यति।

अस्य मध्ये भुवनेश्वर–कटक पुलिस-कमिश्नरेटेन अमित शाहस्य अस्य द्विदिवसीयदौरस्य दृष्ट्या यातायातसम्बद्धा परामर्शसूचना अपि निर्गता।

---------------

हिन्दुस्थान समाचार