अर्जुन–तेंदुलकरस्य विवाहः अतीव भव्यतया सम्पन्नः, चलचित्र–मनोरंजन–जगतः तारकाणां समागमः
मुंबईनगरम्, ०५ मार्चमासः (हि.स.)। भारतीय–क्रिकेट–दिग्गजस्य सचिन–तेन्दुलकरस्य पुत्रः अर्जुन–तेन्दुलकरः तथा सानिया–चन्दोक इत्यनयोः विवाहः मुंबई–नगरे स्थिते भव्ये ‘सेंट–रेजिस’–इत्याख्ये आलीशान–होटल-इत्यत्र अत्यन्तं वैभवेन सम्पन्नः। अस्मिन् अवसरे चलचित
अमिताभ बच्चन


अभिषेक बच्चन


आशा भोसले


फरहान अख्तर


अमीर खान


शाहरुख खान


मुंबईनगरम्, ०५ मार्चमासः (हि.स.)। भारतीय–क्रिकेट–दिग्गजस्य सचिन–तेन्दुलकरस्य पुत्रः अर्जुन–तेन्दुलकरः तथा सानिया–चन्दोक इत्यनयोः विवाहः मुंबई–नगरे स्थिते भव्ये ‘सेंट–रेजिस’–इत्याख्ये आलीशान–होटल-इत्यत्र अत्यन्तं वैभवेन सम्पन्नः। अस्मिन् अवसरे चलचित्र–मनोरञ्जन–जगतः बहवः प्रमुखाः व्यक्तयः उपस्थिताः आसन्।

अस्मिन् विशेषावसरे शाहरुख–खानः स्व–परिवारेण सह समारोहं प्राप्तवान्। तदनन्तरं अमिताभ–बच्चनः तथा जया–बच्चनः अपि सह आगत्य समारोहस्य शोभां वर्धितवन्तौ।

तथैव ऐश्वर्या–राय–बच्चनः, अभिषेक–बच्चनः, फरहान–अख्तरः, आशुतोष–गोवारिकरः तथा आशा–भोसले इत्यादयः बहवः प्रसिद्धाः अतिथयः अपि उपस्थिताः सन्तः नव–दम्पत्योः कृते स्व–शुभाशिषा: प्रदत्तवन्तः। एतेन एषः विवाह–समारोहः स्मरणीयः तथा एतेषां समागमेन शोभितः उत्सवः अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता