मुख्यमन्त्रिणा नीतीशकुमारेण सह राजग–अभ्यर्थिन: राज्यसभायाः निर्वाचनाय नामांकनं समर्पितवन्तः
०५ मार्चमासः (हि.स.)। बिहारस्य राजनैतिके गुरुवासरे प्रबलः प्रभाव: उत्पन्नः जातः यदा मुख्यमन्त्रिणा नीतीशकुमारेण सह राष्ट्रीय–जनतांत्रिक–गठबंधनस्य (राजग) अभ्यर्थिन: राज्यसभा–निर्वाचनाय स्वनामांकनपत्रं समर्पितवन्तः। मुख्यमन्त्री-नीतीशकुमारेण सह भारती
नीतीश कुमार ने राज्यसभा के लिए दाखिल किया नामांकन


०५ मार्चमासः (हि.स.)। बिहारस्य राजनैतिके गुरुवासरे प्रबलः प्रभाव: उत्पन्नः जातः यदा मुख्यमन्त्रिणा नीतीशकुमारेण सह राष्ट्रीय–जनतांत्रिक–गठबंधनस्य (राजग) अभ्यर्थिन: राज्यसभा–निर्वाचनाय स्वनामांकनपत्रं समर्पितवन्तः। मुख्यमन्त्री-नीतीशकुमारेण सह भारतीय–जनता–पक्षस्य नितिननवीनः रामनाथ ठाकुरः, तथा राष्ट्रीयलोकमोर्चाया: (रालोमो) उपेंद्र: कुशवाहा शिवेशकुमारः च अपि स्वनामांकनं समर्पितवन्तः।

सर्वे अभ्यर्थिन: बिहार विधानसभापरिसरस्थे विधान–सभाया: कार्यालय–प्रकोष्ठे सचिवस्य उपस्थितौ नामांकनपत्राणि समर्पितवन्तः। नामांकन–समर्पणसमये राजनैतिकं वातावरणं अतिव्यस्तं दृष्टं जातम्। गठबंधनस्य अनेके वरिष्ठनेतारः अपि तस्मिन् अवसरे उपस्थिताः आसन्।

अस्मिन् अवसरे केंद्रीय–गृह–मन्त्री अमितशाहः, बिहारस्य उपमुख्यमन्त्री सम्राट् चौधरी, तथा विजयकुमारसिन्हा इत्येतै: सह जनता-दल–यूनाइटेड (जदयू)–पक्षस्म अनेके वरिष्ठ–नेतारः उपस्थिताः आसन्। नेतृणः अभ्यर्थिन: शुभकामनाभिः अभिनन्दित्वा राज्यसभा–निर्वाचनाय विजयं सुनिश्चिततां जनयन्ति स्म।

जनता-दल–यूनाइटेड-पक्ष: राज्यसभा–निर्वाचनाय मुख्यमन्त्री नीतीश कुमारं स्व–अभ्यर्थी निश्चितवान्। पक्ष–नेतारः उक्तवन्तः यत् नीतीशकुमारस्य दीर्घ–राजनीतिक–अनुभवः प्रशासनिक–क्षमता च संसदे अपि बिहारं राष्ट्रं च लाभान्वितं करिष्यति।

नामांकन–समर्पणेन सह बिहार–राज्ये राज्यसभा–निर्वाचनाय राजनैतिक–सक्रियता तीव्रा जातम्। अद्य सर्वे पक्षा: स्व-स्व अभ्यर्थिन: विजयं सुनिश्चेतुं रणनीतिम् आयोजयितुं संलग्नाः आसन्। राजनैतिक–विश्लेषकाः मन्यन्ते यत् दिने राज्यसभा–निर्वाचनस्य संदर्भे बिहार–राजनीतौ अधिक: प्रभाव: दृश्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता