Enter your Email Address to subscribe to our newsletters

रायपुरम्, 05 मार्चमासः (हि.स.)।
छत्तीसगढ़राज्यात् रिक्तां भवितुम् अर्हन्तीं राज्यसभायाः आसनां प्रति काङ्ग्रेसदलस्य प्रत्याशी फूलोदेवी नेताम गुरुवासरे नामांकनपत्रं समर्पितवती। अस्मिन् अवसरे विधानसभायां विपक्षनेता डॉ. चरणदास महन्त, छत्तीसगढ़काङ्ग्रेसाध्यक्षः दीपक बैज, विधायकः उमेश पटेल सहिताः काङ्ग्रेसदलस्य बहवः विधायकाः नेतारश्च उपस्थिताः आसन्।
छत्तीसगढ़विधानसभायाः ९० आसनेषु भारतीयजनतापक्षस्य ५४ विधायकाः सन्ति, काङ्ग्रेसदलस्य च ३५ विधायकाः सन्ति। अस्मिन् संख्याबले आधृत्य उभयोः दलयोः प्रत्येकेन एकैकस्य आसनस्य विजयः प्रायः निश्चितः इति मन्यते।
एषा प्रथमवारं भवति यदा छत्तीसगढ़राज्यात् राज्यसभायाः उभयोः आसनयोः कृते स्त्रीप्रत्याशिनोः मध्ये स्पर्धा दृश्यते। तथापि संख्याबलस्य आधारेण उभयोः निर्विरोधेन निर्वाचितत्वं प्रायः निश्चितम् इति मन्यते।
छत्तीसगढ़राज्यात् राज्यसभायाः द्वे आसने रिक्ते भवतः। तयोः एकं फूलोदेवी नेताम इत्यस्याः, अपरं केटीएस तुलसी इत्यस्य। तयोः कार्यकालः ९ अप्रैल दिवसे समाप्तो भविष्यति। अस्मिन् निर्वाचनप्रक्रियायां काङ्ग्रेसदलेन फूलोदेवी नेतामः पुनरपि प्रत्याशिरूपेण मनोनीता।
हिन्दुस्थान समाचार