Enter your Email Address to subscribe to our newsletters

रोमनगरम्, ०५ मार्चमासः (हि.स.)। मध्य–पूर्व–प्रदेशे वर्धमान–चिन्ताया: मध्ये इटली–देशस्य रक्षा–मन्त्री गुइडो–क्रोसेत्तो अमेरिक–इजराइल–देशयोः ईरानम् प्रति कृतानां नव्य–आक्रमणानां तीव्रतया आलोचनां कृतवान्। सः गुरुवासरे उक्तवान् यत् एतानि आक्रमणानि अन्ताराष्ट्रिय–न्यायस्य परिसीमायाः बहिः सन्ति तथा वैश्विक–नियमस्य स्पष्ट–उल्लङ्घनम् कुर्वन्ति।
इटली–संसदः अधः–सदने सम्बोधनकाले क्रोसेत्तो अवदत् यत् गत–सप्ताहान्ते कृतानि सैन्य–आक्रमणानि अन्ताराष्ट्रिय–न्याक्षस्य स्थापित–नियमैः सह अनुकूलाः न आसन्। तेन उक्तं यत् एषा सैन्य–कार्रवाही सहयोगी–राष्ट्राणि तथा सहभागी–देशेभ्य: पूर्वसूचनां विना आरब्धा, येन विश्वस्य बहूनि राष्ट्राणि आकस्मिक–स्थितेः समक्षं कर्तुं बाध्यन्ते।
प्रधानमन्त्री जॉर्जिया–मेलोनी–पक्षस्य ‘ब्रदर्स–ऑफ–इटली’–इत्यस्य सम्बद्धः क्रोसेत्तो उक्तवान् यत् एषः संघर्षः तादृशः अस्ति, यस्य आरम्भस्य विषये विश्वस्य अधिकांश–देशानां पूर्वमेव ज्ञानं न आसीत्। तेन अपि उक्तं यत् अधुना इटली–सहिताः बहवः देशाः अस्य परिणामैः सह व्यवहर्तुं स्थितौ आगताः।
उल्लेखनीयम् यत् इटली–देशस्य दक्षिणपन्थी–सर्वकारः गतवर्षात् अमेरिकी–राष्ट्रपतिः डोनाल्ड–ट्रम्प–प्रशासनेन सह निकट–सम्बन्धान् स्थापयितुं प्रयत्नशीलः आसीत्। तथापि इटली–देशस्य पक्षतः एषा प्रतिक्रिया अद्यपर्यन्तं सर्वाधिक–तीव्रा इति मन्यते।
अस्मिन् मध्ये इटली–देशः खाडी–प्रदेशस्य राष्ट्राणि सम्भावित–संकटात् रक्षितुं वायु–रक्षा–सहाय्यं प्रेषयितुं निर्णयं कृतवान्। तदनन्तरं ईरानस्य सम्भावित–प्रति-आक्रमणं दृष्ट्वा साइप्रस–द्वीपस्य समीपे नौ–सैन्य–संसाधनानि अपि सज्जितुं निश्चयः कृतः, येन क्षेत्रीय–सुरक्षा सुदृढा कर्तुं शक्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता