सोनवर्षा वैटलैंडस्य चारागाहस्थलं विदेशी पक्षिभिः भवति संजीवम्
भागलपुरम्, 05 मार्चमासः (हि.स.)। बिहारराज्ये भागलपुरजनपदस्य बिहपुरप्रखण्डान्तर्गतं सोनवर्षावेटलैण्ड् नाम चारागाहः अधुना विदेशीयैः पक्षिभिः सुसम्पूर्णः दृश्यते। तान् द्रष्टुं बहवः जनाः अत्र आगच्छन्ति। अत्र दिनप्रतिदिनं बारहेडेड्गूज् अर्थात् राजहंस
दीपक कुमार


पक्षी की तस्वीर


भागलपुरम्, 05 मार्चमासः (हि.स.)।

बिहारराज्ये भागलपुरजनपदस्य बिहपुरप्रखण्डान्तर्गतं सोनवर्षावेटलैण्ड् नाम चारागाहः अधुना विदेशीयैः पक्षिभिः सुसम्पूर्णः दृश्यते। तान् द्रष्टुं बहवः जनाः अत्र आगच्छन्ति। अत्र दिनप्रतिदिनं बारहेडेड्गूज् अर्थात् राजहंसस्य संख्यायाः वर्धमानत्वं दृष्ट्वा एतत् निश्चितं जातम् यत् एतत् क्षेत्रं राजहंसानां कृते चारागाहरूपेण अतीव अनुकूलं भवति।

अयं एकः प्रवासी पक्षी अस्ति यः शीतकालस्य समये भारतदेशं आगच्छति। पर्यावरणविद् तथा जलपक्षिगणना बिहारस्य समन्वयकः दीपककुमारझुन्नू अवदत् यत् अद्यपर्यन्तं कृतायां गणनायाम् एषा सर्वाधिकसंख्या अस्ति। घटोराझीलस्य शान्तं वातावरणम्, समीपस्थाः उपजाऊकृषिक्षेत्राणि, झीलस्य पोषकाः जलीयवनस्पतयः तथा सामान्यः जलस्तरः इत्येतैः कारणैः पक्षिभ्यः सुलभतया भोजनं लभ्यते। अतः एषा झील अधिकसंख्यया प्रवासीस्थानिकपक्षीन् आकर्षयति।

एषः पक्षी मुख्यतया मध्यएशियादेशेषु यथा मङ्गोलिया, चीनदेशे विशेषतः तिब्बतप्रदेशे तथा कज़ाकिस्तानदेशे प्रजननं करोति। यदा तत्र अत्यन्तशीतं हिमवृष्टिः च आरभ्यते तदा एते पक्षिणः भोजनस्य अनुकूलजलवायोः च अन्वेषणार्थं दक्षिणदिशं प्रति प्रवासं कुर्वन्ति।

भारतदेशं प्राप्तुं एषः पक्षी विश्वस्य उच्चतमानां पर्वतश्रेणीं हिमालयं अतिक्रामति। एषः प्रायः पञ्चविंशतिसहस्रात् त्रिंशत्सहस्रपादपर्यन्तं उच्चतायां उड्डयनं कर्तुं शक्नोति, येन सः विश्वस्य उच्चतमउड्डयनकर्तृषु पक्षिषु गणनीयः भवति। वैज्ञानिकानां मतानुसारं अस्य फुफ्फुसयोः तथा रक्ते आक्सीजनग्रहणक्षमता अतीव अधिका अस्ति, येन अल्पआक्सीजनयुक्ते वातावरणे अपि सः सहजतया उड्डयनं कर्तुं शक्नोति।

भारतदेशे एते पक्षिणः मुख्यतया उत्तरभारतस्य वेटलैण्डप्रदेशेषु, झीलासु तथा नदीनां तीरेषु दृश्यन्ते। मार्च-अप्रैलमासयोः अन्ते ते पुनः स्वप्रजननस्थानानि प्रति प्रत्यागच्छन्ति।

---------------

हिन्दुस्थान समाचार