Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ मार्चमासः (हि.स.)।भारत–फिनलैंड–देशौ दूरसंचार–सेवाः, दत्तांश–विश्लेषणम्, क्वांटम्–संगणनम्, कृत्रिम–बुद्धिमत्ता–क्षेत्रेषु च सहयोगं वर्धयितुं तथा चक्रीय–अर्थव्यवस्था–सतत–नगरीय–समाधानानां अन्वेषणार्थं स्वीयां सहभागितां सुदृढीकर्तुं निर्णयं कृतवन्तौ। उभौ देशौ ‘डिजिटलीकरण–तथा–स्थिरता–विषये रणनैतिक–सहभागिता’ इत्यस्य स्तरपर्यन्तं सम्बन्धान् उन्नेतुं सहमतौ अभवताम्।
उभयपक्षौ २०३० वर्षपर्यन्तं परस्पर–व्यापारं द्विगुणीकर्तुं लक्ष्यं निर्धारितवन्तौ। फिनलैंड–देशः भारतीय–कौशलस्य कृते स्वदेशे अवसरान् दास्यति तथा भारतीय–स्टार्टअप–उद्यमानाम् अपि अवसरान् प्रदास्यति। अस्मिन् वर्षे उभयदेशौ भारतदेशे संयुक्ततया विश्व–चक्रीय–अर्थव्यवस्था–मञ्चस्य आयोजनम् अपि करिष्यतः।
गुरुवासरे सम्पन्नायां द्विपक्षीय–वार्तायां एकादश–बिन्दुषु सहमति: अभवत्। तेषु स्टार्टअप–सहयोगः, ६जी–तथा डिजिटलीकरण–विषये पृथक् संयुक्त–कार्यदलस्य स्थापना, डिजिटल–तथा पर्यावरण–सम्बद्ध–विषयेषु संयुक्त–अनुसन्धानम्, सांख्यिकी–तथा पर्यावरण–क्षेत्रयोः सहयोगः, आवागमन–सम्बद्ध–विषयेषु काउंसलर–संवाद–व्यवस्थायाः स्थापना च प्रमुखतया सम्मिलिताः सन्ति।अस्मिन् विषये प्रधानमन्त्री नरेन्द्र–मोदी तथा फिनलैंड–देशस्य राष्ट्रपतिः अलेक्जेंडर–स्टब इत्येतयोः मध्ये अद्य नवदिल्लीस्थिते हैदराबाद–हाउस–भवने व्यापक–द्विपक्षीय–वार्ता अभवत्। वार्तायाः अनन्तरं विदेश–मन्त्रालयस्य प्रवक्ता एतां प्रगतिं “सहभाग–समृद्धये सहभाग–निर्माणम्” इति अभिहितवान्। सः अवदत् यत् उभौ नेतारौ भारत–फिनलैंड–सम्बन्धान् ‘डिजिटलीकरण–तथा–स्थिरता–विषये रणनैतिक–सहभागिता’ इत्यस्य स्तरपर्यन्तं उन्नेतुं सहमतिं व्यक्तवन्तौ।
उभौ नेतारौ व्यापार–निवेश, डिजिटलीकरण–स्थिरता, स्वच्छ–ऊर्जा–चक्रीय–अर्थव्यवस्था, सेमीकण्डक्टर–महत्त्वपूर्ण–खनिज:, शिक्षा–नवाचार, कृत्रिम–बुद्धिमत्ता, ६जी, क्वांटम्–संगणनम्, प्रौद्योगिकी–गतिशीलता तथा जन–सम्पर्क–क्षेत्रेषु सहयोगं विस्तारितुं सुदृढीकर्तुं च स्वप्रतिबद्धतां पुनः व्यक्तवन्तौ।
प्रवक्त्रा उक्तं यत् उभौ नेतारौ सर्वप्रकारस्य आतंकवादस्य उन्मूलनाय स्वसामूहिक–प्रतिबद्धतां पुनरुक्तवन्तौ। तौ क्षेत्रीय–वैश्विक–चिन्तासम्बद्ध–विषयेषु अपि स्वविचारान् विनिमयितवन्तौ तथा बहुपक्षीय–मञ्चेषु सहयोगं वर्धयितुं सहमतिं व्यक्तवन्तौ।
नेतारौ अद्यतन–सम्पन्नस्य भारत–यूरोपीय–संघ–मुक्त–व्यापार–सन्धिना (एफटीए) व्यापार–निवेश–निर्यात–रोजगार–विनिर्माण–सहकार्येषु उद्घाटितानां नूतन–अवसराणां लाभं ग्रहीतुं अपि सहमतिं व्यक्तवन्तौ। प्रधानमन्त्री नरेन्द्र–मोदी भारतस्य डिजिटल–परिवर्तनम्, कौशल–विकासः तथा व्यापार–सुगमता–क्षेत्रेषु आरब्धानां प्रमुख–पहलानां विषये प्रकाशं कृत्वा फिनलैंड–देशस्य भारतस्य प्रमुख–कार्यक्रमेषु अधिक–सहभागितां कर्तुं निमन्त्रणम् अपि दत्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता