Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 05 मार्चमासः (हि.स)।भारतफिनलैंडयोः गुरुवासरे कौशलविकासे व्यावसायिकशिक्षायां च प्रशिक्षितकार्यबलस्य गतिशीलताक्षेत्रे सहयोगवर्धनस्य उपायाः चर्चिताः।
कौशलविकासउद्यमितेः राज्यमन्त्री स्वतंत्रप्रभारधारी जयन्तचौधरी फिनलैंडदेशस्य रोजगारमन्त्री मैतियासमार्टिनेन सह कौशलविकासे व्यावसायिकशिक्षायां कार्यबलगतिशीलतायां च भारतफिनलैंडयोः सहयोगं सुदृढीकरणस्य अवसरान् अन्वेष्टुं द्विपक्षीयबैठकां कृतवान्।
मन्त्रालयस्य वक्तव्ये उक्तं यत् एषा चर्चा फिनलैंडदेशस्य राष्ट्रपतेः अलेक्जेण्डरस्टब भारतयात्रायाः अवसरस्य समये अभवत्।
अस्यां बैठके उभयोर्देशयोः मध्ये अनुकूलं भविष्यत्सज्जं प्रतिभापरिसंस्थानं निर्मातुं वर्धमानसमन्वयस्य विषये चर्चा कृता। उभौ मन्त्रिणौ व्यावसायिकशिक्षायाः प्रोत्साहनार्थं तथा कुशलकार्यबलस्य गतिशीलतायै संस्थानानां उद्योगानां प्रशिक्षणप्रणालीनां च मध्ये सहयोगं अधिकं सुदृढीकर्तुं अवसरान् अपि चर्चितवन्तौ।
अस्मिन् अवसरि जयन्तचौधरी उक्तवान् यत् प्रधानमन्त्रिणः दृष्टिकोणस्य अन्तर्गतं भारतं शीघ्रं विश्वस्य वैश्विककौशलराजधानी भवितुं अग्रे सरति। विश्वस्य अतीव युवा गतिशीलकार्यबलानां मध्ये एकेन सह तीव्रविस्तारितेन कौशलविकासतन्त्रेण समर्थितं भारतं वैश्विकउद्योगेषु कुशलप्रतिभानां योगदानं दातुं उत्तमस्थितौ अस्ति।
भारतस्य जनसांख्यिकीयशक्ति तथा फिनलैंडदेशस्य तकनीकीव्यावसायिकउत्कृष्टता कौशलक्षेत्रे स्वाभाविकसहभागितां निर्माति।
अन्यत्र फिनलैंडदेशस्य रोजगारमन्त्री मैतियासमार्टिनेन स्वसम्बोधने उक्तवान् यत् व्यावसायिकशिक्षायां कार्यबलविकासक्षेत्रे भारतसह वर्धमाना सहभागिता फिनलैंडदेशेन महत्त्वेन दृश्यते। सः विभिन्नक्षेत्रेषु कार्यरतभारतीयउच्चकुशलव्यावसायिकानां योगदानस्य प्रशंसां कृतवान्।
तेन उक्तं यत् भारतस्य सुदृढकौशलविकासतन्त्रं युवा प्रतिभा च भविष्यत्सहयोगस्य महत्त्वपूर्णान् अवसरान् प्रददाति। संस्थानानां उद्योगानां च मध्ये सहयोगं सुदृढीकृत्य वयं नवाचारं कौशलविकासं सततआर्थिकविकासं च प्रोत्साहयित्वा कार्यबलसम्बद्धान् आह्वानान् समाधानं कर्तुं शक्नुमः।
---------------
हिन्दुस्थान समाचार