Enter your Email Address to subscribe to our newsletters

बेंगलूरूनगरम्, ०५ मार्चमासः (हि.स.)। ईरान–इजरायल–अमेरिका-मध्ये वर्तमानं युद्धं तथा वर्द्धमान-युद्ध-कारणात् दुबईमध्ये अवरुद्धा: कर्नाटकस्य ५० जना: गुरुवासरे सुरक्षितं बेंगलूरूनगरं प्राप्तवन्तः। सुरक्षितं स्वदेश–प्रत्यागमनेन सर्वे जनाः शान्तिं अनुभूतवन्तः तथा स्वपरिजनैः मिलित्वा भावुकाः जातवन्तः।
बल्लारी–जनपदस्य ३५ तथा चित्रदुर्ग–जनपदस्य १५ जना: मिलित्वा ४ मार्चमासे शारजाहदेशात् कोच्चिनगरम् आगतवन्तः। युद्ध–तीव्रता तथा क्षेत्रे वर्द्धमान-युद्ध-कारणात् विमानानां संचालनं बाधितं जातम्, यस्मात् ते कतिपयदिनानि दुबईमध्ये अवरुद्धवन्तः।
पश्चात् शारजाह–मार्गेण ते कोच्चिं प्राप्य, तत्रात् बेंगलूरूनगरं प्रेषणाय विशेषा व्यवस्था कृतवती। अस्मिन् प्रयत्ने बल्लारी–विधायकः बी.नागेन्द्र: महत्त्वपूर्णं योगदानं दत्तवान्। स: कोच्चित: बेंगलूरूपर्यन्तं विशेषविमानव्यवस्थां कृतवान्, यस्मात् सर्वे जनाः सुरक्षितं स्वराज्यं प्रत्यागता:।
गुरुवासरे प्रात: सर्वे ५० जना: बेंगलूरूविमानपत्तनम् आगतवन्तः, यत्र विधायकः नागेन्द्रः तान् आत्मीयं स्वागतं कृतवान्। संकटकालिनं साहाय्यं च सुरक्षितं प्रत्यागमनं सुनिश्चितुं जनाः विधायकस्य कृतज्ञतां व्यक्तवन्तः।
दीर्घसमयान्तरे सुरक्षितं गृहम् आगमनस्य अनन्तरं कतिपयजनाः स्वपरिजनैः मिलित्वा भावुकाः अभवन्। परिवारस्य सदस्याः अपि सुखं अनुभूतवन्तः तथा शासनं जनप्रतिनिधीनां च प्रयासं प्रति धन्यवादं प्रदत्तवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता