अल्बानियादेशे अवरुद्धा मध्यप्रदेशीया अन्ताराष्ट्रिया मल्ला प्रियांशी-प्रजापत्याः सुरक्षितं स्वदेशं प्रत्यागमनम्
भोपालनगरम्, ०५ मार्चमासः (हि.स.)। मध्यप्रदेशस्य अन्ताराष्ट्रियक्रीडिका प्रियांशी-प्रजापति अल्बानियादेशस्य तिराना–नगरे युद्ध–परिस्थितेः मध्ये अवरुद्धा आसीत्, मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवस्य प्रयासेन सुरक्षितं स्वदेशं प्रत्यागता। प्रियांशी
रेसलर प्रियांशी प्रजापति के पिता से वीडियो कॉल पर बात करते हुए मुख्यमंत्री डॉ. मोहन यादव


भोपालनगरम्, ०५ मार्चमासः (हि.स.)। मध्यप्रदेशस्य अन्ताराष्ट्रियक्रीडिका प्रियांशी-प्रजापति अल्बानियादेशस्य तिराना–नगरे युद्ध–परिस्थितेः मध्ये अवरुद्धा आसीत्, मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवस्य प्रयासेन सुरक्षितं स्वदेशं प्रत्यागता। प्रियांशी तत्र वर्ल्ड रेस्लिङ्ग् चेम्पियनशिप् रैंकिंग्–सीरीज़् प्रतियोगितायाम् भागं गृह्णाति स्म।

जनसंपर्क–अधिकारी अशोक-मनवानी गुरुवासरे उक्तवान् यत् मुख्यमन्त्री डॉ.यादवः प्रियांशी-इत्यस्याः उज्जैननिवासीपरिजनै: सह अपि चतुर्दिक–सन्ध्यायाम् वीडियो–कॉल्-कृत्वा संवादं कृतवान्। प्रियांशी–पिता मुकेशप्रजापति: मुख्यमन्त्रिणा प्रदत्त–सहाय्याय कृतज्ञतां व्यक्तवान्।

यथार्थतः, २४–२८ फरवरीमासे अल्बानियादेशे आयोजिते वर्ल्ड रेस्लिङ्ग् प्रतियोगितायाम् प्रियांशी २६ फरवरीमासे संग्रामं जितवती। सा कजाकिस्तान-, अमेरिका- तथा अल्बानियदेशीय–मल्ला: पराजित्वा उत्कृष्टरूपेण प्रदर्शनं कृतवती। गतवर्षे एशियन–सीरीज-मध्ये अपि तया स्वर्ण–पदकम् प्राप्तं, यत् देशस्य च प्रदेशस्य च मानं आरोहयत्।

मुख्यमन्त्री डॉ.यादवः प्रियांशीं उत्कृष्ट–प्रदर्शनस्य रजत–पदक–प्राप्तेः निमित्तं अभिनन्दनं अपि कृतवान्।

उल्लेखनीयं यत् सम्प्रति मध्य-पूर्व-एशियाक्षेत्रे वर्द्धमानं युद्ध–चिन्ताया: कारणात् प्रियांशी-इत्यनया सहितः अन्ये च क्रीडिका: तत्र अवरुद्धा: आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता