‘शी–मार्ट’ विषये वेबिनार श्व:, प्रधानमन्त्री संबोधनं करिष्यति
नवदिल्ली, ०५ मार्चमासः (हि.स.)।वित्तविवरण–पर्यन्तस्य वेबिनार–सत्रं–२०२६ अन्तर्गतं शुक्रवासरे ‘शी–मार्ट’ विषयः चर्चायाम् उपस्थापयिष्यते। अस्य सत्रस्य उद्घाटनं प्रधानमन्त्री नरेन्द्रमोदी करिष्यति। केंद्रीय–ग्रामीण–विकास–मन्त्रालयेन गुरुवासरे ट्विटर्–
शी-मार्ट पर आयोजित होगा बेवीनार


नवदिल्ली, ०५ मार्चमासः (हि.स.)।वित्तविवरण–पर्यन्तस्य वेबिनार–सत्रं–२०२६ अन्तर्गतं शुक्रवासरे ‘शी–मार्ट’ विषयः चर्चायाम् उपस्थापयिष्यते। अस्य सत्रस्य उद्घाटनं प्रधानमन्त्री नरेन्द्रमोदी करिष्यति। केंद्रीय–ग्रामीण–विकास–मन्त्रालयेन गुरुवासरे ट्विटर्–माध्यमेन जनान् वेबिनारे सहभागी भवितुं आमन्त्रितवान्।

मन्त्रालयेन उक्तम् यत् शी–मार्टः ग्रामीण–महिलानां उत्पादनात् ब्राण्डिङ्गपर्यन्तं, स्थानीय–विक्रयात् राष्ट्रीय–स्तरस्य प्रतिस्पर्धापर्यन्तं प्रगतये साहाय्यं करिष्यति। अधुना महिला–उद्यमिन्यः भविष्ये व्यापार–नेतार: सन्ति।अस्मिन् मंचे केवलं उत्पादविक्रयः न भविष्यति, अपितु आत्मविश्वासवर्धनम्, स्वप्नसिद्धिः च स्यात्। दीनदयाल–अंत्योदय–योजना: राष्ट्रिय–ग्रामीण–आजीविका–अभियानस्य तत्वावधानान्तर्गतं, महिलाः महत्त्वपूर्ण–विपणेषु प्रवेशं करिष्यन्ति, उचितमूल्यं लप्स्यन्ते, दृढं नेटवर्कं निर्मास्यन्ति तथा परिश्रमं स्थायि–सफलतायाम् आत्मनिर्भरत्वे च परिवर्तयिष्यन्ति।

वित्त–मन्त्री निर्मला सीतारमण वित्तविवरण–२०२६–२७ घोषणानुसारं, शी–मार्टः महिला–सशक्तीकरणस्य दिशायाम् आरब्धः। एतेषु मार्ट्स् ग्रामीण–महिला–नेतृत्वयुक्तः उद्यमिन्यः उत्पादान् प्रत्यक्षं विक्रीणान्ति, तथा उत्पादन–सीमिततायाः बाधां न लभ्य, सरलं विपणसंपर्केण स्व–व्यवसायस्य स्वामिन: भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता