प्रधानमंत्री बीजू पटनायकस्य जयंत्यां श्रद्धांजलिम् अर्पितवान्
नव दिल्ली, 05 मार्चमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना ओडिशा-राज्यस्य पूर्वमुख्यमन्त्रिणो बीजूपटनायकस्य जन्मदिने श्रद्धाञ्जलिः अर्पिता। प्रधानमन्त्री गुरुवासरे एक्स-माध्यमे लिखितवान् यत् अद्य तस्य जन्मदिने बीजू पटनायकं प्रति श्रद्धाञ्जलिं
प्रधानमंत्री बीजू पटनायकस्य जयंत्यां श्रद्धांजलिम् अर्पितवान्


नव दिल्ली, 05 मार्चमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना ओडिशा-राज्यस्य पूर्वमुख्यमन्त्रिणो बीजूपटनायकस्य जन्मदिने श्रद्धाञ्जलिः अर्पिता। प्रधानमन्त्री गुरुवासरे एक्स-माध्यमे लिखितवान् यत् अद्य तस्य जन्मदिने बीजू पटनायकं प्रति श्रद्धाञ्जलिं अर्पयामि तथा ओडिशा-राज्यस्य प्रगतिं प्रवर्धयितुं तस्य उत्साहं स्मरामि।

उल्लेखनीयम् यत् बीजू पटनायकः ५ मार्च १९१६ तः १७ एप्रिल् १९९७ पर्यन्तं जीवितवान् आसीत्। सः भारतीयः राजनीतिज्ञः विमानचालकः व्यवसायी च आसीत्। सः १९६१ तः १९६३ पर्यन्तं तथा १९९० तः १९९५ पर्यन्तं ओडिशा-राज्यस्य मुख्यमन्त्रीरूपेण कार्यं कृतवान्।

तथा च सः १९७९ तः १९८० पर्यन्तं तथा १९७७ तः १९७९ पर्यन्तं केन्द्रीय-इस्पात-खननमन्त्री तथा कोयलामन्त्री आसीत्। १९७७ तः १९८५ पर्यन्तं सः केन्द्रपाड़ा-निर्वाचनक्षेत्रात् लोकसभायाः सदस्यः अपि आसीत्।

------------

हिन्दुस्थान समाचार