राज्यसभाप्रत्याशी लक्ष्मी वर्मा अद्य आवेदयिष्यति स्वं नामांकन पत्रम्
रायपुरम्, 05 मार्चमासः (हि.स.)। छत्तीसगढ़राज्ये भाजपादलेन घोषितप्रत्याशिनी लक्ष्मीवर्मा अद्य गुरुवासरे स्वनामांकनपत्रं समर्पयिष्यति। अपरत्र कांग्रेसदलेन अपि बुधवासरे रात्रौ स्वप्रत्याशिनः नाम घोषितम्, यत्र फूलोंदेवीनेताम इत्यस्यै प्रत्याशित्वं प्
भाजपा की छत्तीसगढ़ से राज्यसभा उम्मीदवार लक्ष्मी वर्मा


रायपुरम्, 05 मार्चमासः (हि.स.)।

छत्तीसगढ़राज्ये भाजपादलेन घोषितप्रत्याशिनी लक्ष्मीवर्मा अद्य गुरुवासरे स्वनामांकनपत्रं समर्पयिष्यति। अपरत्र कांग्रेसदलेन अपि बुधवासरे रात्रौ स्वप्रत्याशिनः नाम घोषितम्, यत्र फूलोंदेवीनेताम इत्यस्यै प्रत्याशित्वं प्रदत्तम्।

उल्लेखनीयम् अस्ति यत् राज्यसभानिर्वाचनस्य नामांकनपत्रसमर्पणस्य अद्य गुरुवासरः अन्तिमतिथिः अस्ति। विधानसभासचिवालयस्य सूचनानुसारं नामांकनपत्राणि प्रातः एकादशवादनात् अपराह्ण त्रिवादनपर्यन्तं समर्पयितुं शक्यन्ते। लक्ष्मीवर्मया स्वनामांकनपत्रं पूर्वमेव क्रीतम् अस्ति। नामांकनपत्रग्रहणार्थं संसदीयकार्यमन्त्री केदारकश्यप विधानसभां गतवान् आसीत्।

विधानसभायां सदस्यसंख्यायाः आधारेण एतत् कथ्यते यत् भाजपादलाय तथा कांग्रेसदलाय एकैकं स्थानं प्राप्तुं सम्भावना अस्ति। अन्यतः कांग्रेसदलेन बुधवासरे रात्रौ फूलोंदेवीनेताम इत्यस्याः नाम प्रत्याशिरूपेण घोषितम्।

---------------

हिन्दुस्थान समाचार