शिलांग–दाउकीमार्ग परियोजनायां पुनः विलंबः, प्रमुख चरणानां पूरयित्री नूतना समयसीमा 2027
शिलांगम् (मेघालयः), 05 मार्चमासः (हि.स.)। दीर्घकालात् विलम्बितस्य शिलांग दाउकी मार्गपरियोजनाया विषये पुनः विलम्बस्य स्थिति प्रकटिता अस्ति। अधिकारिणां अनुसारं परियोजनायाः द्वितीयचतुर्थचरणयोः समापनम् अधुना 2027 वर्षस्य दिसम्बरमासपर्यन्तं सम्भाव्यते
Shillong–Dawki Road Project.


शिलांगम् (मेघालयः), 05 मार्चमासः (हि.स.)।

दीर्घकालात् विलम्बितस्य शिलांग दाउकी मार्गपरियोजनाया विषये पुनः विलम्बस्य स्थिति प्रकटिता अस्ति। अधिकारिणां अनुसारं परियोजनायाः द्वितीयचतुर्थचरणयोः समापनम् अधुना 2027 वर्षस्य दिसम्बरमासपर्यन्तं सम्भाव्यते। शिलांग नगरं दाउकी तथा अन्ताराष्ट्रिय व्यापारमार्गेन सह संयोजयन्ती एषा महत्त्वपूर्णा परियोजना पूर्वमपि अनेकवारं समयसीमावृद्धिं प्राप्तवती।

निर्माणकार्यस्य कारणेन परियोजनायाः केषुचित् भागेषु सुरक्षायाः दृष्ट्या वाहनानां गमनागमनस्य समयसीमा निर्धारिताऽस्ति। वर्तमानकाले वाहनानां गमनम् प्रातः 4 वादनात् 11 वादनपर्यन्तं तथा सायं 4 वादनात् रात्रेः 9 वादनत्रिंशन्मिनिटपर्यन्तं एव अनुमन्यते।

अस्य व्यवस्थायाः विषये स्थानीयनिवासिनः दैनिकयात्रिकाः च चिन्तां व्यक्तवन्तः। तेषां कथनम् यत् सीमितसमये एव गमनस्य अनुमतिः लभ्यमाना सति तेषां नित्यजीवनकार्येषु यात्रायोजनासु च बाधा जायते। अनेकानां जनानां कृते कार्यसमये आवागमनम् कठिनं जातम्।

परियोजनासम्बद्धः एकः वरिष्ठः अधिकारी अद्य अवदत् यत् निर्माणकार्यकाले कस्यापि दुर्घटनायाः निवारणाय एषः निर्णयः कृतः। सः अवदत् यत् पूर्वं कतिचन दुर्भाग्यपूर्णाः घटनाः अपि अभवन् अतः जनानां सुरक्षां प्राथमिकतां कृत्वा जोखिमं स्वीकर्तुं न शक्यते।

अधिकारिणः अपि स्वीकृतवन्तः यत् यातायातप्रतिबन्धैः जनानां किञ्चित् असुविधा भवति। तथापि पुलिसविभागस्य निर्माणकम्पन्याः प्रतिनिधीनां च समन्वयेन आपत्कालीनस्थितिषु विशेषतः चिकित्सकीयआपत्कालस्य प्रसङ्गे वाहनानां गमनम् अनुमन्यते।

परियोजनायाः प्रगतिविषये अधिकारिणः अवदन् यत् द्वितीयपैकेजस्य अन्तर्गतं मायलीम मार्बानियांग इत्यस्मात् लाड लांगकावेट पर्यन्तं पञ्चत्रिंशत् किलोमीटरपरिमितस्य मार्गस्य विस्तारकार्यं प्रायः षष्टिप्रतिशतं पूर्णम् अभवत्।

चतुर्थपैकेज इत्यस्य अन्तर्गतं ख्लिएहत्यर्सॉ इत्यस्मात् लाड लापालांग पर्यन्तं सप्तविंशति किलोमीटरपरिमितस्य मार्गस्य द्विलेनीयविस्तारः तथा दृढकिनारनिर्माणकार्यं प्रायः अशीतिप्रतिशतं पूर्णम् अभवत्। पञ्चमपैकेजस्य अन्तर्गतं लाड लापालांग इत्यस्मात् तामाबिल दाउकी पर्यन्तं सप्त दशमलव नवतिनव किलोमीटरपरिमिते खण्डे अपि निर्माणकार्यं आरब्धम् अस्ति। अस्मिन् खण्डे उमंगोट नदी उपरि 368 मीटरदीर्घस्य नूतनपुलस्य निर्माणम् अपि प्रस्तावितम् अस्ति तथा कार्यं दाउकी पुलस्य समीपपर्यन्तं प्राप्तम् इति कथ्यते।

अधिकारिणां अनुसारं कतिपयेषु स्थलेषु भौगोलिकपरिस्थितीनां कारणेन कार्यस्य गति मन्दिता आसीत्। मार्गस्य अनेकाः भागाः अत्यन्तं संकुचिताः सन्ति तथा पर्वतीयप्रदेशस्य जटिलस्थलरचनायाः कारणेन निर्माणकार्यं कठिनं भवति।

अस्मिन् मध्ये तृतीयपैकेजस्य अन्तर्गतं वाहलिंगखाट इत्यस्मात् ख्लिएहत्यर्सॉ पर्यन्तं पिनुरसला बाईपास मार्गस्य निर्माणकार्यस्य ठेका धर ब्रदर्स कन्स्ट्रक्शन इत्यस्मै दत्तः। अस्मिन् पैकेजे एकस्य फ्लाईओवरस्य निर्माणम् अपि अन्तर्भवति किन्तु भूमिअधिग्रहणस्य संरेखणसम्बद्धानां समस्याणां कारणेन अद्यापि कार्यं आरब्धं न जातम्। एतासां समस्याणां समाधानार्थं भूमिमुआवज्वरूपेण प्रायः 95 कोटिरूप्यकाणि अलीकाले एव निर्गतानीति।

प्रथमपैकेजस्य अन्तर्गतं रिलबोंग इत्यस्मात् मायलीम मार्बानियांग पर्यन्तं चतुर्लेनीयमार्गनिर्माणं तृतीयमाइल अष्टममाइल इत्यत्र बाईपासनिर्माणं च क्रियमाणम् अस्ति। अस्मिन् भागे अधुना ब्लैकटॉपिंग कार्यं प्रवर्तते। अस्य मूलसमयसीमा 2025 वर्षस्य दिसम्बरमासः आसीत् किन्तु अधिकारिणां कथनानुसारं जीएसडब्ल्यूएसएस जलपाइपलाइनस्य अन्तिमस्थानान्तरणानन्तरं अस्मिन् मासस्य अन्ते कार्यसमापनस्य आशा अस्ति।

प्रायः नवतिः किलोमीटरदीर्घायाः शिलांग दाउकी मार्गपरियोजनायाः कुलव्ययः 1377 दशमलव 5 कोटिरूप्यकाणि अस्ति। एषा परियोजना जापान अन्तरराष्ट्रीय सहयोग संस्था इत्यस्य वित्तीयसहयोगेन कार्यान्विता भवति तथापि एषा परियोजना अद्यापि अनेकाभ्यः निर्धारितसमयसीमाभ्यः पृष्ठतः गच्छति।

हिन्दुस्थान समाचार