ईरान–संघर्षस्य मध्ये अमेरिका–देशेन एफआईएच–हॉकी–विश्वकप्–२०२६–योग्यता–स्पर्धातः नाम प्रत्याहृतम्
नवदिल्ली, ०५ मार्चमासः (हि.स.)।मध्य–पूर्व–प्रदेशे वर्धमान-चिन्ताया: मध्ये अमेरिका–देशस्य पुरुष–हॉकी–दलम् एफआईएच–हॉकी–विश्वकप्–२०२६–योग्यता–स्पर्धातः स्वनाम प्रत्याहृतवान्। अन्ताराष्ट्रिय–हॉकी–महासंघेन (एफआईएच) बुधवासरे सूचितम् यत् अमेरिका–दलम् मिस
यूएसए ने एफआईएच हॉकी विश्व कप 2026  से नाम वापस लिया


नवदिल्ली, ०५ मार्चमासः (हि.स.)।मध्य–पूर्व–प्रदेशे वर्धमान-चिन्ताया: मध्ये अमेरिका–देशस्य पुरुष–हॉकी–दलम् एफआईएच–हॉकी–विश्वकप्–२०२६–योग्यता–स्पर्धातः स्वनाम प्रत्याहृतवान्।

अन्ताराष्ट्रिय–हॉकी–महासंघेन (एफआईएच) बुधवासरे सूचितम् यत् अमेरिका–दलम् मिस्र–देशस्य इस्माइलिया–नगरे आयोजितायां योग्यता–स्पर्धायां भागं गृह्णाति स्म तथा प्रथम–चक्रे स्व–समूहे अन्तिम–स्थानं प्राप्तवान्। दलस्य ६ मार्चमासे वर्गीकरण–स्पर्धायां चीन–देशस्य विरुद्धं क्रीडितुं निश्चितम् आसीत्, किन्तु अधुना अमेरिका–दलस्य प्रत्याहारस्य कारणेन चीन–दलाय ‘वॉकओवर’ लाभः भविष्यति।एफआईएच–संस्थया प्रकाशिते वक्तव्ये उक्तं यत् ३ मार्चमासे अमेरिकी–विदेश–विभागस्य आधिकारिक–परामर्शस्य अनन्तरम् एषः निर्णयः स्वीकृतः। अस्मिन् परामर्शे मध्य–पूर्व–संघर्ष–क्षेत्रेषु अथवा तेषां समीपवर्तिषु देशेषु स्थितानां सर्वेषां अमेरिकी–नागरिकाणां, येषु मिस्र–देशः अपि अन्तर्भवति, शीघ्रं देशात् निर्गमनम् कर्तुं आह्वानम् कृतम् आसीत्।

एफआईएच–अनुसारम् — “अमेरिका–पुरुष–हॉकी–दलम् अन्तरराष्ट्रीय–हॉकी–महासंघस्य पूर्ण–समर्थनेन इस्माइलिया–नगरे प्रवर्तमानात् एफआईएच–हॉकी–विश्वकप्–२०२६–योग्यता–स्पर्धातः नाम प्रत्याहर्तुं निर्णयं कृतवान्। दलम् अद्यैव मिस्र–देशात् निर्गतं अस्ति। अमेरिका–दलस्य पूर्वं क्रीडितयोः द्वयोः स्पर्धयोः परिणामाः मान्याः भविष्यन्ति, शेषाः स्पर्धाः तु निरस्ताः करिष्यन्ति।”

उल्लेखनीयम् यत् एषा योग्यता–स्पर्धा तेषां दलानां कृते आयोजिता अस्ति, ये महाद्वीपीय–स्पर्धाभिः विश्वकप्–स्पर्धायै योग्यतां प्राप्तुं न शक्तवन्तः। अस्मात् प्रतियोगितायाः माध्यमेन सप्त स्थानानि निर्दिष्टानि सन्ति।

एफआईएच–पुरुष–हॉकी–विश्वकप्–२०२६ स्पर्धा १४ अगस्तमासात् ३० अगस्तमासपर्यन्तं बेल्जियम–देशे तथा नीदरलैण्ड–देशे आयोजितुं निर्धारितम्।मध्य–पूर्व–प्रदेशे चिंता तदा तीव्रा अभवत्, यदा इज़राइल–तथा–अमेरिका–देशाभ्यां ईरान–देशम् प्रति आकाशीय–आक्रमणानि कृतानि। अस्य परिणामस्वरूपं क्षेत्रस्य बहुषु भागेषु वायु–क्षेत्रम् अपि अस्थायिरूपेण निरुद्धम्।

हिन्दुस्थान समाचार / अंशु गुप्ता