Enter your Email Address to subscribe to our newsletters

चेन्नईनगरम्, ०५ मार्चमासः (हि.स.)। तमिलनाडु-राज्ये षड्–राज्यसभा–स्थानानां निर्वाचनाय गुरुवासरे द्रविड-मुनेत्र-कडगम् (डीएमके)–इत्यस्य चत्वारः तथा अखिलभारतीय-अन्ना-द्रविड-मुनेत्र-कडगम् (एआईएडीएमके)–इत्यस्य द्वौ अभ्यर्थिनौ स्वनामांकनपत्रं समर्पितवन्तौ।
वस्तुतः तमिलनाडुराज्येन सह सम्पूर्णे राष्ट्रे रिक्तानां ३७ राज्यसभा–स्थानानां दृष्ट्याः निर्वाचनाय तिथि: घोषणा क्रियते स्म। तमिलनाडु-राज्ये राज्यसभायाम् १८ स्थानानि सन्ति। एतेषु रोटेशन–प्रणालिकया प्रतिद्वैतवर्षे ६ स्धानानां निर्वाचनं भवति। अस्मिनवर्षे तमिलनाडु-राज्ये तिरुचि शिवा, एन. आर.इलंगो, अंथियूर: सेल्वराज:, एन.वी.एन.कनिमोझी सोमू, एम्.थंबीदुरै, जी.के.वासन इत्येषां कार्यकालः २ अप्रेलमासे समाप्तः भविष्यति। रिक्तानां एतेषां स्थानानां नामांकनप्रक्रिया २६ फरवरीमासात् आरब्धा आसीत्। अद्य नामांकनस्य अन्तिमः दिवस: अस्ति।
राज्यसभा–निर्वाचनाय एकस्य सदस्यस्य निर्वाचनाय ३४ विधान–सभासदानां मतं आवश्यकं भवति। वर्तमानस्थितौ डीएमके–इत्यस्मै चत्वारि तथा एआईएडीएमके–इत्यस्मै द्वे स्थाने प्राप्यते इति सम्भावना दृश्यते। अग्रिमं तमिलनाडु–विधानसभा–निर्वाचनं दृष्ट्वा डीएमके तथा एआईएडीएमके स्वगठबंधन–सहयोगिभिः सह स्थान–विभाजनं चर्च्यन्ते स्म। किञ्चित् सहयोगी–पक्षानाम् अपि राज्यसभा–स्थानस्य आवश्यकता प्रस्तुता, यस्माद् अभ्यर्थिनः घोषणायान किंचित् क्लेशं प्राप्तवन्त:।
अद्य नामांकनस्य अन्तिमदिने द्वयोः दलयोः अभ्यर्थिनः घोषणा: कृताः तथा स्थान–विभाजनम् अपि निश्चितम्। डीएमके–इत्यस्य चतुर्षु स्थानेषु एकं उपमहासचिवः तिरुचि शिवा गृहीतवान्। अपि च प्रवक्ता कॉनस्टेंटाइन रविंद्रन् निर्वाचनाय अभ्यर्थी निर्मितः। अन्ययोः द्वयोः स्थानयोः एकं देशीया मुरपोक्कु–द्रविड़ कड़गम्, एकं भारतीय–राष्ट्रिय–कांग्रेसपक्ष: प्राप्यते। तिरुचि शिवा तथा कॉनस्टेंटाइन रविंद्रन् अद्य नामांकनं समर्पितवान्। अन्ये क्रिस्टोफर तिलक (भारतीय–राष्ट्रिय–कांग्रेस्) तथा एल्.के. सुधीश: (देशिया मुरपोक्कु–द्रविड़ कड़गम्) मुख्यमन्त्री एम्.के.स्टालिनस्य उपस्थित्यां नामांकनं समर्पितवन्तः।
एआईएडीएमके–इत्यस्य द्वयो: स्थानयो: मध्ये एकं पक्षस्य प्रचार–सचिवः एम्.थंबीदुरै तथा अन्यदेकं पट्टाली मक्कल काची–नेता अनबुमणि रामदास:। तौ अपि सचिवालये निर्वाचन–अधिकारिण: समक्षं नामांकनं समर्पितवन्तौ।
नामांकन–पत्राणां परीक्षा ६ मार्चमासे भविष्यति, नाम–परित्यागस्य अन्तिमतिथि: ९ मार्चमास: अस्ति। यदि निर्वाचनस्य आवश्यकता भविष्यति, तर्हि मतदानं १६ मार्चमासे भविष्यति। किन्तु षड् एव अभ्यर्थिनः सन्ति यतः सर्वे निर्विरोधं राज्यसभा–सदस्यत्वं प्राप्तुं शक्नुवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता