Enter your Email Address to subscribe to our newsletters

- 20 सहस्राद् अधिकेषु सक्षम आंगनबाड़ी केंद्रेषु ईसीसीईसामग्रीणां वितरणम्
- अत्याधुनिक सुविधाभिः बाल मनसः जायते सर्वांगीणविकासः
लखनऊ, 05 मार्चमासः (हि.स.)।
योगी-सर्वकारः प्रदेशे शिक्षायाः दृढां आधारशिलाम् आङ्गनबाडी-केन्द्रैः स्थापयति। योगिनः आदित्यनाथस्य नेतृत्वे अस्मिन् वित्तीयवर्षे 2025–26 मध्ये 20 सहस्राधिकेषु सक्षम-आङ्गनबाडी-केन्द्रेषु प्रारम्भिक-शैशव-परिचर्या-शिक्षा (ईसीसीई) किट् इत्यस्य वितरणं कृतम्। प्रदेश-सरकारस्य मतम् अस्ति यत् त्रिवर्षात् षड्वर्षपर्यन्ता आयुः बालकानां बौद्धिक-विकासस्य अत्यन्तं संवेदनशीला अवस्था भवति। अतः यदि अस्मिन्नेव चरणे गुणवत्तापूर्णा शिक्षण-सामग्री वैज्ञानिक-पद्धत्या सह प्रदत्ता भवति तर्हि अनन्तरं शिक्षायाः यात्रा अधिकं सुदृढा भवति।
प्रत्येकस्मै आङ्गनबाडी-केन्द्राय 39 सहस्र-रूप्यकाणि
प्रारम्भिक-शैशव-परिचर्या-शिक्षा (ईसीसीई) किट् क्रयार्थं प्रत्येकस्मै आङ्गनबाडी-केन्द्राय 39 सहस्र-रूप्यकाणि योगी-सरकारेण दीयन्ते। राष्ट्रियशिक्षायोजना 2020 अपि त्रिवर्षात् षड्वर्षपर्यन्तानां बालानां कृते ईसीसीई इत्यस्य महत्त्वं स्वीकृत्य तद् विद्यालय-शिक्षायाः मूलस्तरे समाविष्टवती अस्ति। ईसीसीई अन्तर्गतं संसाधनरूपेण प्री-स्कूल-किट्, ईसीसीई-मान्युअल (पहल), वार्षिक-क्रियाकलाप-पञ्चाङ्गम्, बाल-क्रियाकलाप-पुस्तिका च उपलब्धा भवति। तदनन्तरं
द्वारा प्रकाशितानां षट्-राष्ट्रिय पुस्तकः न्यासकथापुस्तकानां समुच्चयः तथा टीचिंग-लर्निंग-मैटेरियल (टीएलएम) आधृताः पुस्तिकाः अपि प्रदीयन्ते।
क्रीडया एव शिक्षन्ते बालाः
ईसीसीई-किट् माध्यमेन बालकाः क्रीडया एव शिक्षणस्य अवसरं प्राप्नुवन्ति, येन तेषां बौद्धिक-शारीरिक-मानसिक-क्षमतानां विकासः भवति। एताभिः किट्भिः क्रियाकलाप-आधारित-शिक्षा दीयते। वर्णचित्र-पट्टाः, शैक्षिक-क्रिडनकानि, प्रहेलिकाः तथा संज्ञान-विकास-सम्बद्धा सामग्री बालानां कृते सहजतया अधिगमनस्य अवसरं ददाति। सरकारस्य बलम् अस्मिन् विषयि अस्ति यत् शिक्षा न भाररूपा भवेत्, अपि तु आनन्देन सह भवेत्। क्रीडया अक्षरज्ञानम्, संख्या-परिचयः तथा सामाजिक-व्यवहारस्य बोधः अपि विकसितः भवति। अनेन बालानां जिज्ञासा, कल्पनाशक्ति तथा अभिव्यक्ति-क्षमता नूतनं आयामं प्राप्नोति।
सक्षमाः भवन्ति आङ्गनबाडी-केन्द्राः
प्रदेश-सर्वकारः आङ्गनबाडी-केन्द्रान् केवलं पोषण-वितरणपर्यन्तं सीमितान् कर्तुं न इच्छति। एतानि केन्द्राणि क्रमशः आधुनिक-सुविधाभिः सुसज्जितानि क्रियन्ते। अत्याधुनिक-उपकरणानां प्रयोगः, उत्तम-आसनसामग्री, सुरक्षित-वातावरणम् तथा प्रशिक्षित-कार्यकर्त्रीणां उपलब्धता एतेषां केन्द्राणां स्वरूपं परिवर्तयति। एषः परिवर्तनः दर्शयति यत् सरकारः प्रारम्भिक-शिक्षां मुख्य-नीतेः केन्द्रस्थाने स्थापयति। अद्य आङ्गनबाडी-केन्द्राणि ग्रामेषु मोहल्लेषु च लघु-लर्निंग-हब-रूपेण विकसितानि भवन्ति।
सर्वाङ्गीण-विकासाय दृढ-पदम्
योगी-सरकारः बालानां बौद्धिक-शारीरिक-मानसिक-विकासं समानरूपेण महत्त्वं ददाति। पोषणम्, स्वास्थ्य-परीक्षणम् तथा शिक्षा एतानि एकत्रीकृत्य समग्र-विकासस्य आदर्शः निर्मितः। प्रारम्भिक-अवस्थायां सम्यक् मार्गदर्शनं प्राप्ते बालानां आत्मविश्वासः वर्धते तथा भविष्यस्य आह्वानानां सामना कर्तुं क्षमता विकसिताऽस्ति। सरकारस्य एषा पहल दर्शयति यत् आगामिनी पीढी सक्षमां प्रतिस्पर्धिनीं च कर्तुं सा दीर्घकालिकानि दृढानि च पदानि गृह्णाति।
हिन्दुस्थान समाचार