Enter your Email Address to subscribe to our newsletters

नोएडा, 05 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे अपराह्णे ग्रेटर नोएडा वेस्ट इत्यस्य सेक्टर १० स्थले स्थितस्य नवनिर्मितस्य केडीएसजी सुपर स्पेशलिस्ट चिकित्सालयस्य उद्घाटनम् अकरोत्। एषः चिकित्सालयः पूर्वक्रिकेटक्रीडकस्य कपिलदेवस्य तस्य संस्थायाः च प्रयासेन निर्मितः अस्ति। अस्मिन् चिकित्सालये आयुष्मान भारत योजनायाः कार्डधारकाणामपि चिकित्सा क्रियते।
मुख्यमन्त्री योगी आदित्यनाथः उद्घाटनसमये विधिवत् पूजनं हवनं च कृत्वा मुख्ययजमानरूपेण सहभागित्वं कृतवान्। अस्मिन् अवसरि कपिलदेवः, तस्य धर्मपत्नी रोमा देवी, क्षेत्रीयसांसदः डॉ. महेश शर्मा, राज्यसभासांसदः सुरेन्द्र नागरः, भाजपा क्षेत्रीयाध्यक्षः सत्येन्द्र सिसोदिया, उत्तरप्रदेशस्य मन्त्री कुंवर बृजेश सिंहः, विधायकौ तेजपाल नागरः धीरेंद्र सिंहश्च, एमएलसी नरेन्द्र भाटी, श्रीचन्द्र शर्मा इत्यादयः बहवः गणमान्यजनाः उपस्थिताः आसन्। मुख्यमन्त्री उद्घाटनसमये सम्पूर्णचिकित्सालयपरिसरस्य भ्रमणम् अपि अकरोत्। तदा चिकित्सालयप्रबन्धनेन अवगतं कृतं यत् अत्र आयुष्मानकार्डधारकाणामपि उपचारः क्रियते।
अस्मिन् अवसरि मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् भारताय प्रथमं विश्वकपं प्रदातुं समर्थः महान् क्रिकेटक्रीडकः कपिलदेवः तथा तस्य परिवारः अधुना स्वास्थ्यसेवाक्षेत्रे प्रवेशं कृत्वा अभिनन्दनीयः। तेन सेवाप्रकल्परूपेण एषः चिकित्सालयः निर्मितः। अनेन न केवलं जनपदवासिनः, अपि तु एनसीआरप्रदेशेषु स्थितानां नागरिकानामपि कृते अत्र उत्कृष्टाः सुपरस्पेशलिस्ट-चिकित्सासुविधाः उपलब्धाः भविष्यन्ति।
सः अवदत् यत् स्वास्थ्यक्षेत्रं प्रत्येकस्य व्यक्तेः कृते अत्यन्तं महत्त्वपूर्णम् अस्ति। प्रत्येकः जनः कस्यचित् रूपेण स्वास्थ्यसेवानां उपरि निर्भरः भवति। सरकारेण स्वस्तरे प्रयासाः कृताः, किन्तु यावत् निजीक्षेत्रस्य सहभागिता न भवति तावत् सर्वेषां जनानां कृते उत्तमाः स्वास्थ्यसुविधाः प्रदातुं कठिनम्।
सः अपि उक्तवान् यत् स्वातन्त्र्यानन्तरं प्रथमवारं आयुष्मान भारत योजना इत्यस्य माध्यमेन व्यापकस्वास्थ्यसेवा उपलब्धा अभवत्। अद्य भारतदेशे अस्य योजनायाः अन्तर्गतं षष्टिकोट्यधिकजनानां कृते एषा सुविधा उपलब्धा अस्ति, तत्र उत्तरप्रदेशः देशस्य अग्रणी राज्यं वर्तते।
मुख्यमन्त्री उक्तवान् यत् वैद्यस्य सद्व्यवहारः रोगिणः अर्धरोगं निवर्तयति। सः हास्यरूपेण अवदत्—यदा कपिलदेवः भारतस्य बॉलरः कप्तानः च सन् क्रीडति स्म, तदा पाकिस्तानदलम् आधं क्रीडां पूर्वमेव पराजितम् इव मन्यते स्म। यदि चिकित्सालयं कपिलदेवः इव मन्यामहे, रोगं च पाकिस्तानदलम् इव, तर्हि रोगः अपि पूर्वमेव अर्धः नश्येत्।
सः अवदत् यत् उत्तमपरामर्शेन सद्व्यवहारेण च यदा रोगी शीघ्रं स्वस्थः भवति, तदा चिकित्सालयस्य अपि कीर्तिः वर्धते। महाराष्ट्रस्य प्रतिष्ठितेन डीवाई पाटिल समूहस्य सहकार्येण कपिलदेवेन अस्य चिकित्सालयस्य सञ्चालनदायित्वं स्वीकृतम्। एषः समूहः अत्यन्तं प्रतिष्ठितः व्यावसायिकश्च अस्ति, महाराष्ट्रे उत्तमं कार्यं कृतवान्, तस्य अनुभवः अधुना गौतमबुद्धनगरजिले तथा एनसीआरप्रदेशेषु अपि लाभदायकः भविष्यति।
योगी आदित्यनाथः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी देशे स्वास्थ्यसेवाक्षेत्रे बहूनि कार्याणि कृतवान्। वर्षे २०१४ पर्यन्तं भारतदेशे केवलं षट् एम्स संस्थानानि आसन्, किन्तु अद्य देशे विश्वस्तरीयसुविधाभिः युक्तानि तेयोविंशति एम्स संस्थानानि कार्यरतानि सन्ति।
सः अपि उक्तवान् यत् उत्तरप्रदेशे २०१७ पूर्वं केवलं सप्तदश मेडिकल कॉलेजाः आसन्, किन्तु अधुना पञ्चसप्ततौ जनपदेषु एकसप्ततिः मेडिकल कॉलेजाः सञ्चालिताः सन्ति, अन्ये चत्वारः शीघ्रमेव आरभिष्यन्ते। यदि केडीएसजी समूहः अपि मेडिकल कॉलेज क्षेत्रे प्रवेशं करिष्यति तर्हि स्थानीयनागरिकाणां कृते उत्तमाः स्वास्थ्यसुविधाः उपलब्धाः भविष्यन्ति।
सः अवदत् यत् उत्तरप्रदेशे “वन डिस्ट्रिक्ट वन मेडिकल कॉलेज” इति योजना प्रवर्तिता अस्ति। भारतस्य महानतमः विमानस्थानकः अपि गौतमबुद्धनगरजिले शीघ्रमेव आरभिष्यते। अस्मिन् जनपदे भारतस्य मोबाइल निर्माणस्य पञ्चपञ्चाशत् प्रतिशतं निर्माणं भवति, इलेक्ट्रॉनिक घटकानां बहवः अंशाः अपि अत्रैव उत्पाद्यन्ते। अत्रैव फिल्म सिटी निर्मीयते, मेडिकल डिवाइस पार्कः अपि अत्र स्थाप्यते। एषः जनपदः लोजिस्टिक केन्द्ररूपेण तथा कार्गो केन्द्ररूपेण अपि तीव्रतया विकसितः भवति।
---------------
हिन्दुस्थान समाचार