Enter your Email Address to subscribe to our newsletters


कोलकातानगरम्, ०५ मार्चमासः (हि.स.) — राज्यसभा–निर्वाचनम् २०२६ इत्यस्य कृते तृणमूल–कांग्रेस–पक्षस्य अभ्यर्थिन: गुरुवासरे औपचारिकतया स्वनामांकनपत्राणि समर्पितवन्तः। पक्षेण अभिनेत्री कोएल–मलिक, वरिष्ठ–अधिवक्ता मेनका–गुरुस्वामी, पूर्व–आरक्षक–महानिदेशकः राजीव–कुमारः तथा मन्त्री बाबुल–सुप्रियो इत्येते अभ्यर्थित्वेन नामनिर्दिष्टाः। नामांकन–समर्पणेन सह राज्यस्य राजनीतौ उच्च–सदन–निर्वाचनं प्रति उत्सुकता वर्धिता।
तृणमूल–कांग्रेस–पक्षस्य घोषित–अभ्यर्थिनां मध्ये बाबुल–सुप्रियो पूर्वं केन्द्रीय–मन्त्री आसीत् तथा अधुना पश्चिम–बङ्ग–सर्वकारे सूचना–प्रौद्योगिकी–तथा–इलेक्ट्रॉनिक्स–विभागस्य मन्त्रिरूपेण कार्यं करोति। राजीव–कुमारः राज्यस्य पूर्व–पुलिस–महानिदेशकः आसीत्। मेनका–गुरुस्वामी संवैधानिक–विषयेषु विशेषज्ञा वरिष्ठ–अधिवक्ता इति प्रसिद्धा, जबकि कोएल–मलिक बंगाली–चलच्चित्र–उद्योगस्य प्रमुखा अभिनेत्री अस्ति।
राजनीतिक–विश्लेषकैः मतं व्यक्तं यत् एतेषां नामनिर्देशनेन तृणमूल–कांग्रेस–पक्षः राजनैतिक–प्रशासनिक–वैधानिक–सांस्कृतिक–क्षेत्राणां मध्ये संतुलन–स्थापनस्य रणनीतिं स्वीकृतवान्।
अस्मिन् एव काले भारतीय–जनता–पक्षस्य अभ्यर्थी राहुल–सिन्हा अपि पश्चिम–बङ्ग–विधानसभां प्राप्तवान् तथा स्वनामांकनपत्रं समर्पितवान्। अस्मिन् अवसरे सः उक्तवान् यत् तस्य अभ्यर्थी एतं संदेशं ददाति यत् पक्षः स्वसमर्पित–कार्यकर्तृभ्यः उचित–समये सम्मानं ददाति। सः बङ्गाल–राज्यस्य कल्याण–विकासयोः कृते सामूहिक–प्रयत्नानां आवश्यकता पुनः प्रतिपादितवान्।
उल्लेखनीयम् यत् दश–राज्येषु ३७ राज्यसभा–आसनानां कृते द्विवार्षिक–निर्वाचनस्य अन्तर्गतं १६ मार्चमासे मतदानं भविष्यति तथा तस्मिन् एव दिने मतगणना अपि सम्पन्ना भविष्यति। परिणामाः सायं ५ वादनसमये घोषिताः भविष्यन्ति। महाराष्ट्र, ओडिशा, तमिलनाडु, पश्चिम–बङ्ग, असम, बिहार, छत्तीसगढ, हरियाणा, हिमाचल–प्रदेश तथा तेलंगाना–राज्येभ्यः निर्वाचितानां ३७ सदस्याणां कार्यकालः अप्रैलमासे समाप्तः भविष्यति, येन एतानि आसनानि रिक्तानि भविष्यन्ति।
नामांकन–समर्पणस्य अन्तिम–तिथि: ०५ मार्चमास: आसीत्। ०६ मार्चमासे नामांकनपत्राणां परीक्षणं भविष्यति तथा उम्मीदवाराः ०९ मार्चपर्यन्तं स्वनाम–प्रत्याहारं कर्तुं शक्नुवन्ति। निर्धारित–समयसीमायां निर्वाचन–आयोगस्य निरीक्षणे सम्पूर्णा प्रक्रिया सम्पन्ना भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता