मुख्यमंत्री नीतीश कुमारोऽकरोत् राज्यसभां गंतुमुद्घोषणाम्
पटना, 05 मार्चमासः (हि.स.)। नीतिशकुमारो बिहारस्य राजनैतिक-अटकलानां विषये विरामं दत्तवान्। सः X माध्यमेन कृतस्य पोस्टस्य द्वारा उक्तवान् यत् गतद्वौ दशकाधिककालात् यूयं मयि निरन्तरं विश्वासं समर्थनं च स्थापितवन्तः। तस्यैव बलात् वयं बिहारस्य तथा सर्वे
मुख्यमंत्री नीतीश कुमार


पटना, 05 मार्चमासः (हि.स.)। नीतिशकुमारो बिहारस्य राजनैतिक-अटकलानां विषये विरामं दत्तवान्। सः X माध्यमेन कृतस्य पोस्टस्य द्वारा उक्तवान् यत् गतद्वौ दशकाधिककालात् यूयं मयि निरन्तरं विश्वासं समर्थनं च स्थापितवन्तः। तस्यैव बलात् वयं बिहारस्य तथा सर्वेषां जनानां निष्ठया सेवा कृतवन्तः। भवतां विश्वासस्य समर्थनस्य च शक्त्या एव अद्य बिहारः विकासस्य सम्मानस्य च नूतनं आयामं प्रदर्शयति। अस्य कृते अहं पूर्वमपि भवतां प्रति अनेकवारं कृतज्ञतां व्यक्तवान्।

मुख्यमन्त्री उक्तवान् यत् संसदीयजीवनस्य आरम्भकालात् एव मम मनसि एषा इच्छा आसीत् यत् अहं बिहारविधानमण्डलस्य उभयोः सदनयोः सह संसदः उभयोः सदनयोः अपि सदस्यः भूयासम्। अस्यैव क्रमस्य अन्तर्गतं अस्मिन् समये सम्पन्ने राज्यसभानिर्वाचने सदस्यः भवितुम् इच्छामि।

अहं यूयं सर्वान् पूर्णया ईमानदारीया आश्वासयामि यत् भवद्भिः सह मम एषः सम्बन्धः भविष्ये अपि अविच्छिन्नः स्थास्यति। भवद्भिः सह मिलित्वा विकसितबिहारनिर्माणस्य संकल्पः पूर्ववत् एव स्थिरः भविष्यति। या नूतना सरकारः भविष्यति तस्याः कृते मम पूर्णं सहयोगं मार्गदर्शनं च भविष्यति।

नीतीश कुमारो राज्यसभानिर्वाचनस्य कृते अल्पकालानन्तरं स्वनामांकनपत्रं समर्पयिष्यति।-------------

हिन्दुस्थान समाचार