तिरुवनंतपुरे एआई रोबोटद्वारा नलिकायाः स्वच्छता
नव दिल्ली, 06 मार्चमासः (हि.स.)।स्वच्छ भारत मिशन अर्बन 2.0 योजनायाः अन्तर्गतं तिरुवनन्तपुरम् नगरनिगमेन नगरीय स्वच्छतायां महत्त्वपूर्णं पदं गृहीत्वा कृत्रिमबुद्धि संचालितः जी स्पाइडर रोबोट् नहराणां स्वच्छीकरणाय नियोजितः। अयं रोबोट् मानव हस्तक्षेपं व
तिरुवनंतपुरम में एआई रोबोट से नहर सफाई


नव दिल्ली, 06 मार्चमासः (हि.स.)।स्वच्छ भारत मिशन अर्बन 2.0 योजनायाः अन्तर्गतं तिरुवनन्तपुरम् नगरनिगमेन नगरीय स्वच्छतायां महत्त्वपूर्णं पदं गृहीत्वा कृत्रिमबुद्धि संचालितः जी स्पाइडर रोबोट् नहराणां स्वच्छीकरणाय नियोजितः। अयं रोबोट् मानव हस्तक्षेपं विना अपि संकटपूर्णेषु कठिनप्रदेशेषु सुरक्षितरीत्या कचरान् अपसारयितुं समर्थः अस्ति।

केन्द्रीय नगरीय विकास मन्त्रालयेन उक्तं यत् तिरुवनन्तपुरम् रेलवे स्टेशन समीपे स्थितस्य अमायिझंचन नहर इत्यस्य भागः दीर्घकालात् स्वच्छीकरणस्य दृष्ट्या अत्यन्तं कठिनः आसीत्। अत्र अल्प ऊर्ध्वता, निरन्तरं जलप्रवाहः तथा सुरक्षित प्रवेश बिन्दोः अभावः इत्यादिकारणात् पारम्परिक विधिभिः स्वच्छीकरणं अत्यन्तं कठिनं भवति स्म। एतासां समस्याणां समाधानार्थं स्थानीय स्वशासन मन्त्री एम बी राजेश जी स्पाइडर रोबोटस्य उद्घाटनम् अकरोत्। एषा पहलः नगरनिगमस्य तथा टेक्नोपार्क स्थितस्य जेनरोबोटिक इनोवेशन्स संस्थायाः सहकार्येण सम्पन्ना। एषा एव संस्था पूर्वं बैंडिकूट नामकं रोबोटिक स्कैवेंजरम् अपि विकसितवती।

अधिकाऱिणः अवदन् यत् अस्य रोबोटस्य उपयोगेन स्वच्छता कर्मिणां कृते संकटपूर्णे अस्वच्छे वातावरणे प्रवेशस्य आवश्यकता न भविष्यति। कृत्रिमबुद्धि समर्थित विजन तथा सेन्सर प्रौद्योगिकी सज्जितः अयं रोबोट् नहरायां सञ्चितान् विविधप्रकारान् कचरान् चिन्त्य सुरक्षितरीत्या अपसारयति। अस्मिन् बायोमिमेटिक क्लॉ ग्रैबर स्थापितः अस्ति यः मिश्रितं अनियमितं च मलबं गृहित्वा प्रत्यक्षं संग्रह यानेषु क्षिपति।

जी स्पाइडर रोबोट् उच्च जलस्तरे निरन्तर प्रवाहे च अपि कार्यं कर्तुं समर्थः अस्ति। सः प्लास्टिक तीक्ष्ण वस्तूनि तथा अन्यानि हानिकारक कचराणि सुरक्षितरीत्या निष्कास्य नहराणां स्वच्छतां सुनिश्चितं करोति। नियमित सुसंगठित स्वच्छीकरणेन अयं नगरीय जल निकासी व्यवस्थां अपि सुदृढीकरोति तथा बाढा समस्या निवारणे साहाय्यं करोति।

अधिकाऱिणः एतत् नगरीय स्वच्छतायां प्रौद्योगिकी आधारितं क्रान्तिकारी पदम् इति वर्णयन्ति यत् न केवलं कार्य दक्षतां वर्धयति अपि तु स्वच्छता कर्मिणां सुरक्षां अपि सुनिश्चितं करोति। एषः नमूना राज्यस्य अन्यासु जोखिमपूर्णासु नहरासु तथा ड्रेनेज नेटवर्क व्यवस्थासु अपि अपनेतुं शक्यते।

---------------

हिन्दुस्थान समाचार