Enter your Email Address to subscribe to our newsletters

नवदेहली, 06 मार्चमासः (हि.स.)। केन्द्रीयगृह-एवं-सहकारितामन्त्री अमितशाहः अद्य ओड़िशा-राज्यस्य मुण्डली-स्थाने केन्द्रीय-औद्योगिक-सुरक्षाबलस्य ५७तमे स्थापनादिवस-समारोहे मुख्यतिथिरूपेण सम्बोधनं करिष्यति। गृहमन्त्रालयस्य अनुसारं, शाहः अस्मिन् अवसरे भुवनेश्वर-नगरे राष्ट्रिय-न्यायवैद्यक-विज्ञान-विश्वविद्यालयस्य नूतन-परिसरस्य आधारशिलां स्थापयिष्यति। अनेन सह सः एन.एफ.एस.यू. इत्यस्य 'ट्रान्जिट्' परिसरस्य आभासी उद्घाटनमपि करिष्यति। गृहमन्त्री एन.एफ.एस.यू. परिसरस्य समीपे केन्द्रीय-न्यायवैद्यक-विज्ञान-प्रयोगशालायाः भूमिपूजनं विधास्यति।
अस्मिन् कार्यक्रमे केन्द्रीय-शिक्षामन्त्री धर्मेन्द्रप्रधानः, ओड़िशा-राज्यस्य मुख्यमन्त्री मोहनचरणमाझी, केन्द्रीयगृहसचिवः, एन.एफ.एस.यू. इत्यस्य संस्थापक-कुलपतिः अन्ये च गणमान्याः महानुभावाः उपस्थिताः भविष्यन्ति। अस्मिन् अन्तराले शाहः गृहमन्त्रालयस्य विविध-उपक्रमाणाम् अन्तर्गतं आरक्षक-अवसंरचनां सुदृढं कर्तुं अनेक-आरक्षक-स्थानक भवनानां आभासी-उद्घाटनं करिष्यति, तथा च केषुचित् आरक्षक-स्थानकेषु 'कमाण्ड एण्ड कन्ट्रोल' इत्यादीनां सुविधानां च उद्घाटनं करिष्यति।
अतिरिक्ततया, भारतीय-प्रौद्योगिकी-संस्थानं भुवनेश्वर तथा राष्ट्रिय-रक्षा-विश्वविद्यालयस्य मध्ये अवबोधन-पत्रेषु हस्ताक्षराणि भविष्यन्ति। एन.एफ.एस.यू. इत्यस्य भुवनेश्वर-परिसरः राज्ये न्यायवैद्यक-अन्वेषण-सम्बद्ध-आधारभूत-संरचनायाः सुदृढीकरणस्य दिशि एकं महत्वपूर्णं सोपानं मन्यते। ओड़िशा-सर्वकारेण आवंटित-चत्वारिंशत् (४०) एकड-भूमौ निर्मितः अयं स्थायी परिसरः न्यायवैद्यक-सम्बद्ध-विज्ञानानां 'उत्कृष्टता-केन्द्र' रूपेण विकसितः भविष्यति।
एन.एफ.एस.यू. इत्यस्य अयं अस्थायी परिसरः त्रिभिः शैक्षणिक-पाठ्यक्रमैः—एम्.एस्.सी. न्यायवैद्यक-विज्ञानं, एम्.एस्.सी. अङ्कीय-न्यायवैद्यक एवं सूचना-सुरक्षा, तथा च एल्.एल्.एम्. सायबर-विधि एवं सायबर-अपराध-अन्वेषणम्—इत्येतैः सह स्वकार्यं प्रारभते।
---------------
हिन्दुस्थान समाचार