Enter your Email Address to subscribe to our newsletters

पटना, 06 मार्चमासः (हि.स.)। बिहार राज्यस्य मुख्यमन्त्रिणः नीतीश कुमारस्य राज्यसभां गन्तुं कृतनिर्णयानन्तरं राज्यस्य राजनीतौ तीव्रं प्रकल्पनं उत्पन्नम्। अस्मात् निर्णयात् अनन्तरं बिहारस्य राजनीतिं प्रति पटना नगरीतः आरभ्य दिल्ली पर्यन्तं राजनैतिक गतिविधयः वर्धिताः सन्ति। अस्य मध्ये मुख्यमन्त्री अद्य जनता दल यूनाइटेड दलस्य विधायक दलस्य बैठकम् आहूतवान्।
मुख्यमन्त्रिणः आवासे भविष्यती एषा बैठकः सायंकाले पञ्चवादने आयोजिता भविष्यति। अस्याः बैठकीनः कार्यसूची विषये अद्यापि आधिकारिक सूचना न प्रकाशिताऽस्ति, किन्तु राजनैतिक परिसरेषु अस्य विषये विविधाः चर्चाः प्रवर्तन्ते।
अस्यां बैठके दलस्य सर्वे विधायकाः, सांसदाः तथा विधान परिषद् सदस्याः एमएलसी आहूताः सन्ति। मन्यते यत् अस्याम् बैठके बिहारस्य आगामि राजनैतिक परिस्थितेः तथा सत्तासम्बद्धानां सम्भावित निर्णयानां विषये चर्चा भविष्यति। राज्यस्य परिवर्तमाना राजनैतिक स्थितिः दृष्ट्वा आगामि रणनीतिः अपि निर्धारिता भवितुम् अर्हति।
राजनीति विश्लेषकाः मन्यन्ते यत् मुख्यमन्त्री नीतीश कुमारः दलस्य अन्तः भविष्यत् नेतृत्वस्य विषये अपि नेतृभिः सह मुक्तया चर्चा कर्तुं शक्नोति। दल नेतृत्वस्य इच्छा अस्ति यत् आगामि राजनीतिं प्रति कश्चन भ्रमः वा असमञ्जसः न भवेत् तथा संगठनं दृढतया अग्रे नेतुं शक्येत्।
जदयू कार्यकर्तृणां प्रदर्शनम्मुख्यमन्त्रिणः नीतीश कुमारस्य राज्यसभायै नामांकनं कृतवान् इति कारणेन जदयू कार्यकर्तृषु असन्तोषः दृश्यते। कार्यकर्तारः निरन्तरं दलस्य कार्यालयस्य बहिः प्रदर्शनं कुर्वन्ति तथा मुख्यमन्त्रिणं स्वनिर्णयस्य पुनर्विचारं कर्तुम् आग्रहं कुर्वन्ति। तदनन्तरं पटना नगरे विभिन्नेषु स्थानेषु पोस्टर पत्राणि अपि स्थापितानि सन्ति। तेषु पोस्टरेषु लिखितम् अस्ति— “नीतीश सेवक कर रहा पुकार, नेता करें अपने निर्णय पर विचार।”
दलस्य कार्यकर्तारः वदन्ति यत् नीतीश कुमारः राज्यस्य राजनीतौ सक्रियः एव अवस्थितः भवेत्, यतः तस्य नेतृत्वे एव दलः तथा राज्यं बहूनि महत्वपूर्णानि राजनैतिक चरणानि सफलतया अतिक्रान्तवन्तौ।----------------
हिन्दुस्थान समाचार