त्रिबारं जदयू बिहार प्रदेशाध्यक्षः जातः उमेश सिंह कुशवाहा, निर्विरोधं संजातं निर्वाचनम्
पटना, 06 मार्चमासः। जनता दल यूनाइटेड (जदयू) पक्षस्य वरिष्ठनेता उमेशसिंह कुशवाहा तृतीयवारं निरन्तरं पक्षस्य बिहारप्रदेशाध्यक्षपदे निर्वाचितः। शुक्रवासरे पटनानगरे स्थिते जदयू पक्षस्य प्रदेशकार्यालये सङ्गठनात्मकनिर्वाचनस्य निर्धारितप्रक्रिया सम्पन्ना
प्रदेश निर्वाचन पदाधिकारी अशोक कुमार एवं परमहंस कुमार ने कुशवाहा काे प्रमाण-पत्र सौंपते


पटना, 06 मार्चमासः। जनता दल यूनाइटेड (जदयू) पक्षस्य वरिष्ठनेता उमेशसिंह कुशवाहा तृतीयवारं निरन्तरं पक्षस्य बिहारप्रदेशाध्यक्षपदे निर्वाचितः। शुक्रवासरे पटनानगरे स्थिते जदयू पक्षस्य प्रदेशकार्यालये सङ्गठनात्मकनिर्वाचनस्य निर्धारितप्रक्रिया सम्पन्ना अभवत्, ततः सः निर्विरोधेन अध्यक्षः घोषितः।

प्रदेशनिर्वाचनपदाधिकारी अशोककुमारः “मुन्ना” तथा परमहंसकुमारः तस्मै अध्यक्षपदस्य प्रमाणपत्रं समर्पितवन्तौ। अस्य पूर्वं उमेशसिंह कुशवाहा चतुर्षु समुच्चयेषु स्वनामांकनपत्रं प्रस्तुतवान्। निर्धारितसमयसीमापर्यन्तं अस्मिन् पदे तस्य अतिरिक्तं अन्येन केनापि नेतृणा नामांकनं न कृतम्। ततः परीक्षणप्रक्रिया सम्पन्नायां सः निर्विरोधेन बिहारप्रदेशाध्यक्षः घोषितः।

अस्मिन् अवसरे प्रस्तावकरूपेण राज्यसरकारस्य मन्त्रिणी लेसी सिंह, पूर्वमन्त्री तथा विधायकः रत्नेश सदा, पूर्वमन्त्री तथा विधायकः शीला मण्डल तथा डॉ. पूनम सिंह उपस्थिताः आसन्। कार्यक्रमे अनेकाः वरिष्ठनेतारः अपि उपस्थिताः आसन्।

नवनिर्वाचितः प्रदेशाध्यक्षः उमेशसिंह कुशवाहा अवदत् यत् एतत् तस्य कृते सौभाग्यस्य विषयः अस्ति यत् पक्षस्य राष्ट्रीयाध्यक्षस्य तथा बिहारस्य मुख्यमन्त्रिणः नीतीश कुमारस्य मार्गदर्शनेन आशीर्वादेन च तस्मै तृतीयवारं सङ्गठनस्य सेवायाः अवसरः प्राप्तः। सः अवदत् यत् विकासपुरुषस्य नीतीश कुमारस्य नेतृत्वे सङ्गठनं अधिकं दृढं, सक्रियं गतिशीलं च कर्तुं सः निरन्तरं प्रयतिष्यते।

सः अपि अवदत् यत् पक्षस्य मूलमन्त्रः “न्यायेन सह विकासः” समाजस्य अन्तिमपङ्क्तौ स्थितं जनं प्रति अपि प्रापयितुं सः पूर्णसमर्पणेन कार्यं करिष्यति तथा सङ्गठनं नूतनशिखराणि प्रति नेतुं प्रयत्नं करिष्यति।

अस्मिन् कार्यक्रमे केन्द्रीयराज्यमन्त्री रामनाथ ठाकुरः, राज्यसर्वकारस्य मन्त्री श्रवण कुमारः, विधानपरिषदि सत्तारूढदलस्य मुख्यसचेतकः संजय कुमार सिंह “गान्धी जी”, पक्षस्य राष्ट्रीयमहासचिवः तथा विधायकः भगवान सिंह कुशवाहा, रामसेवक सिंह कुशवाहा, राष्ट्रियमहासचिवः मनीष कुमार वर्मा, पूर्वमन्त्री तथा विधायकः जयन्त राजो, विधायकः अजय कुमार चौधरी, इन्द्रदेव पटेल, बबलू मण्डल तथा पूर्वमन्त्री सुमित कुमार सिंह इत्यादयः बहवः वरिष्ठनेतारः उपस्थिताः आसन्।----------

हिन्दुस्थान समाचार