Enter your Email Address to subscribe to our newsletters

जैसलमेरम्, 6 मार्चमासः(हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहन भागवतः शुक्रवासरे उक्तवान् यत् भारतस्य सांस्कृतिकएकात्मतायाः तथा सामाजिकसमरसतायाः निर्माणे दादागुरुपरम्परायाः अतुलनीयः योगदानः अस्ति। सः अवदत् यत् अस्माकं पूर्वजाः अस्मान् शिक्षितवन्तः यत् जीवनस्य विविधता स्वाभाविकी अस्ति, किन्तु केवलं विविधतायाः स्थानप्रदानेन अनेकता उत्पद्यते। जैनदर्शनं अस्मान् शिक्षयति यत् श्रद्धया सह कस्यापि मार्गस्य अनुसरणेन ईश्वरस्य प्राप्तिः सम्भवति।
डॉ. भागवतः गच्छाधिपतेः आचार्य जिनमणिप्रभ सूरीश्वर महाराजस्य निश्रायां दीपप्रज्ज्वलनं कृत्वा त्रिदिवसीयस्य चादरमहोत्सवस्य शुभारम्भं कृतवान्। अस्मिन् अवसरे सम्पूर्णं जैसलमेरनगरं दादागुरु जिनदत्त सूरेः भक्तिरसेन निमग्नं दृश्यते स्म। अस्य कार्यक्रमस्य आयोजनं डेडानसरक्रीडांगणे कृतम्।
संघप्रमुखः भागवतः समाजस्य प्रति अपीलं कृतवान् यत् सर्वे हिन्दवः एकं कुटुम्बम् इव मन्यन्ताम् तथा उच्चनीचभेदभावं परित्यज्य राष्ट्राय जीवनं समर्पयितुं संकल्पं कुर्वन्तु।
महोत्सवस्य प्रमुखं आकर्षणं सप्तमे मार्चमासे आयोज्यमानः सामूहिकः “दादागुरु इकतीसा” पाठः अस्ति। आचार्य श्री जिनमनोज्ञ सागरजी इत्यस्य प्रेरणया आयोजितस्य अस्य संकल्पस्य अन्तर्गतं विश्वस्य विभिन्नेषु भागेषु एकस्मिन् समये १ कोटि ८ लक्षाधिकाः श्रद्धालवः पाठं करिष्यन्ति।
जैसलमेर जैनसमितेः अध्यक्षः महेन्द्रसिंह भंसाली अवदत् यत् एकादशशतके आचार्य जिनदत्त सूरेः अग्निसंस्कारसमये तस्य चादरस्य अनदग्धत्वं दैवीयचमत्काररूपेण मान्यते। प्रायः शतार्धपूर्वं जैसलमेरस्य महारावलः महामारीनिवारणार्थं एतां चादरं पाटननगरात् आनयत्। अधुना ८७१ वर्षेषु प्रथमवारं अस्याः पवित्रचादरस्य सार्वजनिकाभिषेकदर्शनस्य च अवसरः श्रद्धालुभ्यः प्राप्तः।
भंसाली अवदत् यत् शनिवासरे जैसलमेरदुर्गात् भव्यः चादरवरघोड़ः अर्थात् शोभायात्रा निष्कास्यते। अपराह्णे चादराभिषेकः भविष्यति तथा सायंकाले प्रसिद्धसंगीतकाराणां सांस्कृतिककार्यक्रमाः भविष्यन्ति। रविवासरे उपाध्याय महेन्द्रसागर महाराजाय “आचार्य पद” प्रदानं भविष्यति। तदनन्तरं अभिषेकजलस्य वासक्षेपस्य च वितरणं भविष्यति।
अस्मिन् कार्यक्रमे महाराष्ट्रसर्वकारस्य मन्त्री मंगलप्रभात लोढ़ा, पूर्वमहाराणी रासेश्वरी राज्यलक्ष्मी, पद्मश्री डॉ. डीआर मेहता, संयोजकः तेजराज गोलेछा इत्यादयः सहिताः देशस्य विभिन्नभागेभ्यः आगताः प्रायः ४०० सन्ताः तथा सहस्रशः श्रद्धालवः उपस्थिताः आसन्।--------------
हिन्दुस्थान समाचार