Enter your Email Address to subscribe to our newsletters

नवदेहली, 06मार्चमासः (हि.स.)।भारतस्य राष्ट्रपतिः द्रौपदी मुर्मु महोदया अद्य श्वः च पश्चिमबङ्गराज्यस्य द्विदिवसीयप्रवासे गमिष्यति। तत्र सा विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति।
राष्ट्रपतिभवनस्य अनुसारं, मुर्मु महोदया ६ मार्चदिनाङ्के दार्जिलिंग-नगरे ‘वन्दे मातरम्’ गीतस्य १५० तमे वर्षगाँठ (सार्धशताब्दी) उपलक्ष्ये आयोजितस्य ‘दार्जिलिंग हिल फेस्टिवल’ (पर्वत-उत्सवस्य) शुभारम्भं करिष्यति। अस्मिन् अवसरे सा दार्जिलिंग-स्थिते ‘लोक भवने’ ‘रूट्स एण्ड रिद्म्स’ (मूलानि लयाः च) इति शीर्षकेण आयोजितायाः एकस्याः प्रदर्शिन्याः अपि उद्घाटनं विधास्यति।
तस्मिन्नेव दिने राष्ट्रपतिः भारतीय-प्रौद्योगिकी-संस्थान-खड़गपुर इत्यत्र ‘महिला-नेतृत्वं सशक्तीकरणं च’ इति विषये आयोजितस्य 'प्लेटिनम जुबली फ्लैगशिप' कार्यक्रमस्य अपि आभासी-माध्यमेन उद्घाटनं करिष्यति।
स्वप्रवासस्य द्वितीये दिने अर्थात् ७ मार्च दिनाङ्के, राष्ट्रपतिः दार्जिलिंग-नगरे 'अन्ताराष्ट्रिय-सन्थाल-परिषदा' आयोजितस्य नवम-अन्ताराष्ट्रिय-सन्थाल-सम्मेलनस्य मुख्यतिथिरूपेण सम्मिलिता भविष्यति। राष्ट्रपतेः अयं प्रवासः क्षेत्रे सांस्कृतिक-शैक्षणिक-गतिविधीनां प्रोत्साहनेन सह आदिवासी-समुदायेन सम्बद्धानां विषयाणां संवादम् अपि सुदृढं करिष्यति।
---------------
हिन्दुस्थान समाचार