नगालैंडस्य मोकोकचुंगे मत्स्यानां नूतनप्रजातिद्वयस्य अन्वेषणम्
मोकोकचुंगम् (नगालैंडः), 06 मार्चमासः (हि.स.)। नगालैण्डराज्यस्य मोकोकचुङ्गजनपदे वैज्ञानिकैः मधुरजले वसन्त्याः मत्स्ययोः द्वे नवीनप्रजाति आविष्कृते। विशेषतया एतयोः उभयोः प्रजात्योः नाम्नी दिवंगतस्य सहयोगिनः पुत्रस्य पुत्र्याश्च नाम्ना निर्धारिते, य
Image of the Two New Fish Species Discovered in Nagaland’s Mokokchung.


मोकोकचुंगम् (नगालैंडः), 06 मार्चमासः (हि.स.)।

नगालैण्डराज्यस्य मोकोकचुङ्गजनपदे वैज्ञानिकैः मधुरजले वसन्त्याः मत्स्ययोः द्वे नवीनप्रजाति आविष्कृते। विशेषतया एतयोः उभयोः प्रजात्योः नाम्नी दिवंगतस्य सहयोगिनः पुत्रस्य पुत्र्याश्च नाम्ना निर्धारिते, येन तस्य अन्तिमाभिलाषा पूर्णा जाता।

अधिकारिकसूत्रानुसारं नूतनतया आविष्कृतयोः प्रजात्योः नाम्नी ग्लिप्टोथोरैक्स सेंटिमेरेनी तथा ओरेइच्थिस एलियाने इति स्तः। एतयोः परिचयः मोकोकचुङ्गजनपदे कृतस्य मत्स्यवैज्ञानिकसर्वेक्षणस्य समये अभवत्। अनन्तरं एषः शोधः अन्तरराष्ट्रीयवैज्ञानिकपत्रिकायां जूटैक्सा नाम्नि प्रकाशितः।

अयं अध्ययनः अण्डमाननिकोबारद्वीपसमूहे स्थितस्य भारतीयकृषिअनुसन्धानपरिषदः केन्द्रीयद्वीपकृषिअनुसन्धानसंस्थानस्य जे प्रवीनराज तथा मुम्बईनगरस्य स्वतन्त्रशोधकर्ता बालाजी विजयकृष्णन इत्येताभ्यां मोकोकचुङ्गस्थितस्य फजल अली महाविद्यालयस्य सहायकप्राध्यापकः दिवंगतः लेफ्टिनेन्ट लिमाकुम इत्यस्य सहयोगेन कृतः।

शोधकर्तृभिः उक्तं यत् ग्लिप्टोथोरैक्स सेंटिमेरेनी नामकप्रजातिः दिखौ नदीस्य पाषाणयुक्तेषु भागेषु प्राप्ता। एषा तीव्रप्रवाहयुक्तासु पर्वतीयनदीषु वसन्ती कैटफिशसमूहस्य मत्स्यप्रजातिः अस्ति। अस्याः शरीरस्य अधोभागे विशेषा आसंजनरचना अस्ति, यस्य साहाय्येन एषा तीव्रप्रवाहे अपि शिलासु दृढतया संलग्ना तिष्ठति।

द्वितीया प्रजातिः ओरेइच्थिस एलियाने त्सुरंगनद्याः उपधारायां प्राप्ता। प्रायः द्वि दशमलव पञ्च सेण्टीमीटरदीर्घा एषा लघुमत्स्यप्रजातिः स्वस्य दीप्तलालवर्णपक्षैः तथा पुच्छमूलभागे स्थितेन कृष्णचिह्नेन विशेषतया परिचीयते।

वैज्ञानिकाः वदन्ति यत् अस्याः आविष्कृतेः फलतः ब्रह्मपुत्रा नदीप्रदेशस्य जलीयजैवविविधतायाः विषये नूतना सूचना प्राप्ता। एतत् नगालैण्डस्य पारिस्थितिकसमृद्धिम् अपि प्रकाशयति, यत् पूर्वहिमालयप्रदेशस्य तथा इण्डोबर्मा जैवविविधताहॉटस्पॉट इत्यस्य सङ्गमस्थले अवस्थितम् अस्ति।

----------

हिन्दुस्थान समाचार