प्रधानमंत्रिणा मोदिना संस्कृत सुभाषितेन दृढ़ संकल्पपरिश्रमयोः शक्तिर्बोधिता
नवदिल्ली, 06 मार्चमासः (हि.स.)। यत् दूरं यत् दुराध्यम् यच्च दूरस्थितं सत्यम्। तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥ प्रधानमन्त्रिणा नरेन्द्रमोदिना दृढसंकल्पस्य निरन्तरपरिश्रमस्य च शक्तिः उल्लिखिता। सः अवदत् यत् भारतस्य जनाः स्वस्य दृढनिश्च
फाइल तस्वीर: प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, 06 मार्चमासः (हि.स.)।

यत् दूरं यत् दुराध्यम् यच्च दूरस्थितं सत्यम्।

तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥

प्रधानमन्त्रिणा नरेन्द्रमोदिना दृढसंकल्पस्य निरन्तरपरिश्रमस्य च शक्तिः उल्लिखिता। सः अवदत् यत् भारतस्य जनाः स्वस्य दृढनिश्चयेन अत्यन्तकठिनानि कार्याणि अपि साधयितुं शक्नुवन्ति।

शुक्रवासरे सः एक्स इति सामाजिकमाध्यमे सन्देशं प्रकाशितवान्। तस्मिन् सः लिखितवान् यत् यदा जनाः सम्यक् दिशि निरन्तरं प्रयत्नं कुर्वन्ति तदा ते महान् लक्ष्यं अपि प्राप्नुवन्ति।

अस्य प्रसङ्गे सः संस्कृतस्य एतत् सुभाषितम् अपि उद्धृतवान्— “यत् दूरं यत् दुराध्यम् यच्च दूरस्थितं सत्यम्। तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥”

अस्य सुभाषितस्य अर्थः अस्ति यत् लक्ष्यं कियत् दूरं वा कठिनं वा किमर्थं न भवेत्, दृढसंकल्पेन धैर्येण निरन्तरपरिश्रमेण च तत् अवश्यं प्राप्तुं शक्यते।

प्रधानमन्त्री अपि उक्तवान् यत् भारतस्य जनाः स्वस्य दृढनिश्चयेन किमपि कार्यं साधयितुं समर्थाः सन्ति, तथा सम्यक् दिशि कृतः कठोरपरिश्रमः महतः लक्ष्यप्राप्तौ सहायकरः भवति।

---------------

हिन्दुस्थान समाचार