उपमुख्यमंत्री केशव प्रसाद मौर्यो वाराणस्यां होली मेलन कार्यक्रमे भविष्यति सम्मिलितः
वाराणसी,06 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्य शुक्रवासरे वाराणसीनगरं आगमिष्यति। नगरे आगमनानन्तरं उपमुख्यमन्त्री सर्किटहाउसस्थले भारतीयजनतापक्षस्य नेतृभिः सह बैठकां कृत्वा अनन्तरं विभागीयाधिकारिभिः सह समीक्षाबैठकां कर
उपमुख्यमंत्री केशवप्रसाद मौर्य


वाराणसी,06 मार्चमासः (हि.स.)।

उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्य शुक्रवासरे वाराणसीनगरं आगमिष्यति। नगरे आगमनानन्तरं उपमुख्यमन्त्री सर्किटहाउसस्थले भारतीयजनतापक्षस्य नेतृभिः सह बैठकां कृत्वा अनन्तरं विभागीयाधिकारिभिः सह समीक्षाबैठकां करिष्यति।

ततः अनन्तरं सायं चतुर्वादने महमूरगञ्जस्थे निवेदिताबालिकाइण्टरकॉलेज नाम्नि स्थले आरएसएसस्य आनुषङ्गिकैकाईपरिवारस्य होलीमिलनकार्यक्रमे सहभागं कृत्वा सः लखनऊनगरं प्रत्यागमिष्यति।

ज्ञातव्यं यत् अस्य पूर्वं उपमुख्यमन्त्री केशवप्रसादमौर्य त्रितीये मार्चदिनाङ्के अपि वाराणसीनगरं आगतः आसीत्। राष्ट्रियग्रामीणआजीविकामिशनस्य एनआरएलएम इत्यस्य पक्षतः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य क्रीडाङ्गणे आयोजितस्य एकादशदिवसीय सरसमेलायाः समापनसमारोहस्य कार्यक्रमे सहभागं कृत्वा सः लखनऊनगरं प्रत्यागच्छत्।

हिन्दुस्थान समाचार