Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 06 मार्चमासः (हि.स.)।केन्द्रीय गृहमन्त्री तथा सहकारितामन्त्री अमित शाहः श्वः हरिद्वारस्थिते बैरागी कैम्पे उत्तराखण्डस्य विकासं केन्द्रितां प्रदर्शनीम् अवलोकयिष्यति तथा जनसभां सम्बोधयिष्यति। अस्मिन् अवसरे मुख्यमन्त्री पुष्करसिंहधामी, राज्यसरकारस्य मन्त्रिणः, सांसदाः, विधायकाः, जनप्रतिनिधयः वरिष्ठाधिकारिणश्च उपस्थिताः भविष्यन्ति।
सप्तममार्चदिनाङ्कात् आरभ्यमाणा न्यायसंहिता विषयका एषा राज्यस्तरीया प्रदर्शनी नवममार्चदिनाङ्के समाप्तिं गमिष्यति।
एषा विशेषप्रदर्शनी मुख्यमन्त्री धामी नेतृत्वे गतचतुर्षु वर्षेषु उत्तराखण्डे कृतानां विकासकार्याणां, जनकल्याणकारीयोजनानां तथा अन्येषां महत्वपूर्णानां ऐतिहासिकनिर्णयानां च आधारेण केन्द्रिता भविष्यति।
प्रदर्शनीमध्ये राज्यस्य आधारभूतसंरचनाविकासः, मार्गसंपर्कव्यवस्थाया सुदृढीकरणम्, स्वास्थ्यसेवाविस्तारः, शिक्षाक्षेत्रे सुधाराः, निवेशप्रोत्साहनम्, पर्यटनविकासः, धार्मिकसांस्कृतिकधरोहरसंरक्षणम् तथा सीमावर्तीक्षेत्राणां विकासाय कृतानि महत्वपूर्णकार्याणि द्रष्टुं बोधुं च शक्यन्ते।
प्रदर्शनीमध्ये सुशासनस्य पारदर्शितायाश्च नागरिकसुविधानां सुदृढीकरणस्य दिशि कृताः प्रयासाः अपि विशेषरूपेण प्रदर्शिताः भविष्यन्ति। अस्यां प्रदर्शनीमध्ये राज्यस्य प्रायः सर्वेषां विभागानां झलकः अपि दृश्यते।
एषा प्रदर्शनी केन्द्रसर्वकारस्य नवीनानां आपराधिककानूनानां भारतीयन्यायसंहिता, भारतीयनागरिकसुरक्षासंहिता तथा भारतीयसाक्ष्यअधिनियम इत्येषां प्रभावीक्रियान्वयनाय जनजागरूकतायै च आयोजिताभवति।
प्रदर्शनीमध्ये नवीनन्यायसंहितायाः प्रमुखविशेषताः सरलप्रभावीमाध्यमैः प्रदर्श्यन्ते। तत्र समयबद्धअनुसन्धानस्य आरोपपत्रप्रस्तुतेः च अनिवार्यता, शून्यप्राथमिकी तथा इलेक्ट्रॉनिकप्राथमिकीयोजनाया व्यवस्था, सप्तवर्षाधिकदण्डनीयेषु अपराधेषु अनिवार्या विधिविज्ञानजांच, इलेक्ट्रॉनिकडिजिटलसाक्ष्याणां वैधता, स्त्रीबालकानां विरुद्ध अपराधेषु सशक्तप्रावधानानि, संगठितअपराधः साइबरअपराधः आतंकवादसम्बद्धाः स्पष्टदण्डप्रावधानानि, पीडितप्रतिपूर्तियोजना तथा संपत्तेः शीघ्रवापसीव्यवस्था इत्यादयः विशेषरूपेण प्रदर्श्यन्ते।
नाट्यप्रस्तुतयः प्रदर्शन्याः प्रमुखाकर्षणं भविष्यन्ति।
हिन्दुस्थान समाचार