(अद्यतनीकृता) नोएडा इंटरनेशनलविमानस्थानकाय अमिलत् एयरोड्रमानुज्ञापिपत्रं,शीघ्रं भविष्यति उद्घाटनम्
नोएडा, 06 मार्चमासः (हि.स.)। नोएडा अन्ताराष्ट्रियविमानपत्तनात् (जेवर) विमानयानानाम् उड्डयनस्य मार्गः अधुना सुस्पष्टः जातः। शुक्रवासरे जेवरविमानपत्तनाय एयरोड्रम् अनुज्ञापत्रं प्राप्तम्। अस्य पूर्वदिने एव अस्मै विमानपत्तनाय नागरिकविमानसुरक्षाविभागात्
फाइल फोटो : नोएडा इंटरनेशनल एयरपोर्ट


नोएडा, 06 मार्चमासः (हि.स.)। नोएडा अन्ताराष्ट्रियविमानपत्तनात् (जेवर) विमानयानानाम् उड्डयनस्य मार्गः अधुना सुस्पष्टः जातः। शुक्रवासरे जेवरविमानपत्तनाय एयरोड्रम् अनुज्ञापत्रं प्राप्तम्। अस्य पूर्वदिने एव अस्मै विमानपत्तनाय नागरिकविमानसुरक्षाविभागात् सुरक्षा परीक्षणसम्बद्धं अनुमोदनं प्राप्तम् आसीत्।

नोएडा अन्ताराष्ट्रियविमानपत्तनस्य नोडल अधिकारी शैलेन्द्र भाटिया अवदत् यत् शुक्रवासरे अस्मै विमानपत्तनाय एयरोड्रम् अनुज्ञापत्रं प्राप्तम्। अस्य अनुज्ञापत्रस्य प्राप्तेः अनन्तरं नोएडा विमानपत्तनं विमानानां उड्डयनार्थं सज्जम् अभवत्। अत्र विमानानां उड्डयनं तथा अवतरणं आरभ्यितुं शक्यते। सः अपि अवदत् यत् शीघ्रमेव अस्य विमानपत्तनस्य उद्घाटनं भविष्यति। तस्य अनुसारं उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः प्रधानमन्त्रिणं नरेन्द्र मोदीं उद्घाटनार्थं आमन्त्र्य उद्घाटनसमारोहस्य तिथिं निश्चितं करिष्यति।

तेन उक्तं यत् अत्र एयर इंडिया, आकाशा तथा इंडिगो इत्येताः विमानसेवाः स्वविमानानां उड्डयनार्थं सम्झौतां कृतवन्त्यः। एयरोड्रम् अनुज्ञापत्रस्य प्राप्तेः अनन्तरं एताः विमानकम्पन्यः अत्र स्वकर्मचारिणां नियुक्तिं तथा अन्याः तकनीकीसुविधाः स्थापयितुं आरभिष्यन्ति। तेन उक्तं यत् विमानपत्तनस्य सुरक्षार्थं पूर्वमेव सीआईएसएफ तथा उत्तरप्रदेशपुलिसः नियुक्ताः सन्ति। विमानपत्तनात् उत्तमा सम्पर्कव्यवस्था प्रदातुं विविधमार्गेषु साधनेषु च कार्यं प्रवर्तते।

मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य नेतृत्वे प्रदेशसर्वकारेण विमानपत्तनं राज्यस्य अतीव महत्त्वपूर्णं आधारभूतसंरचनापरियोजनारूपेण विकसितम्। एतत् विमानपत्तनं केवलं पश्चिमोत्तरप्रदेशस्य न, अपि तु सम्पूर्णस्य राष्ट्रीयराजधानीक्षेत्रस्य (एनसीआर) कृते महत्त्वपूर्णं विमानपरिवहनकेन्द्ररूपेण उदेति। अस्य आरम्भेण उत्तरप्रदेशे निवेशः, पर्यटनम्, लॉजिस्टिक्स् तथा व्यापारः महान् प्रोत्साहं प्राप्स्यन्ति। सहस्रशः युवानां कृते नूतनाः रोजगारावसराः अपि सृज्यन्ते।

तेन अपि उक्तं यत् नोएडा अन्तरराष्ट्रीयविमानपत्तनं अनेकचरणेषु विकसितं क्रियते। पूर्णतया विकसिते सति एतत् केवलं भारतस्य न, अपि तु एशियाखण्डस्य अपि महत्तमेषु विमानपत्तनेषु एकं भविष्यति। अस्य क्षमता प्रतिवर्षं कोटिशः यात्रिकान् सेवितुं भविष्यति तथा एतत् उत्तरप्रदेशं वैश्विकविमानपरिवहनजालैः सह संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। ---------------

हिन्दुस्थान समाचार