भारतस्य समुद्री शक्तिं दृढीकर्तुं सागरमालायाःपौतनिर्माणस्य भूमिका मुख्या : शांतनु ठाकुरः
कोलकाता, 06 मार्चमासः (हि.स.)। केन्द्रीयपत्तनपोतपरिवहनजलमार्गराज्यमन्त्री शान्तनु ठाकुरः उक्तवान् यत् भारतस्य समुद्रीक्षेत्रस्य विकासे सागरमाला कार्यक्रमः तथा नौकानिर्माणोद्योगः अत्यन्तमहत्त्वपूर्णां भूमिकां निर्वहिष्यतः। सः अवदत् यत् देशस्य समुद्र
शांतुन ठाकुर


कोलकाता, 06 मार्चमासः (हि.स.)। केन्द्रीयपत्तनपोतपरिवहनजलमार्गराज्यमन्त्री शान्तनु ठाकुरः उक्तवान् यत् भारतस्य समुद्रीक्षेत्रस्य विकासे सागरमाला कार्यक्रमः तथा नौकानिर्माणोद्योगः अत्यन्तमहत्त्वपूर्णां भूमिकां निर्वहिष्यतः। सः अवदत् यत् देशस्य समुद्रीसामर्थ्यं सुदृढीकृत्य वैश्विकवाणिज्ये प्रतिस्पर्धां वर्धयितुं लक्ष्यं निर्धारितम् अस्ति।

शुक्रवासरे कोलकातानगरे आयोजिते “सागर संकल्पः : भारतस्य समुद्रीगौरवस्य पुनर्प्राप्तिः” इत्यस्य विषयस्य राष्ट्रियसमुद्रीरक्षासंवादे भाषमाणः ठाकुरः नीतिनिर्मातॄन्, समुद्रीविशेषज्ञान् तथा उद्योगजगतः प्रतिनिधीन् अवदत् यत् भारतस्य विशालः समुद्रीभौगोलिकप्रदेशः आर्थिकविस्तारस्य महदवसरं प्रददाति।

सः अवदत् यत् भारतस्य समीपे 7500 किलोमीटरात् अधिका दीर्घा तटरेखा अस्ति, प्रायः 14500 किलोमीटरपरिमिताः नौवहनयोग्याः जलमार्गाः सन्ति, तथा प्रमुखानां वैश्विकवाणिज्यमार्गाणां समीपे अस्य सामरिकस्थिति अपि अस्ति। एतासां क्षमतानां सदुपयोगेन देशः पत्तनाधारितौद्योगिकविकासं अग्रे नेतुं शक्नोति।

केन्द्रीय मन्त्री अवदत् यत् सागरमाला कार्यक्रमस्य मुख्यलक्ष्यम् परिवहनव्ययस्य न्यूनता, पत्तनानां कार्यकुशलतायाः वृद्धिः तथा तटीयनौवहनस्य अन्तर्देशीयजलमार्गाणां च माध्यमेन वाणिज्यस्य अधिकस्पर्धात्मकतां कर्तुम् अस्ति। अस्य उपक्रमस्य अन्तर्गतं पत्तनाधुनिकीकरणम्, आधारभूतसंरचनाविकासः, तटीयप्रदेशेषु रोजगारसृजनम् तथा तटीयसामुदायिकानां सततविकासः विशेषरूपेण प्रोत्साह्यते।

शान्तनु ठाकुरः अवदत् यत् सरकारस्य दीर्घकालीनसमुद्रीरणनीत्यां नौकानिर्माणोद्योगाय प्रमुखस्थानं दत्तम् अस्ति। “समुद्री अमृतकाल दृष्टिः 2047” इत्यस्य अन्तर्गतं देशे नौकानिर्माणक्लस्टराणां विकासार्थं प्रायः त्रिलक्षकोटिरूप्यकाणां निवेशस्य योजना क्रियते।

तेन उक्तं यत् सरकारस्य लक्ष्यं 2030 पर्यन्तं भारतं नौकानिर्माणक्षेत्रे विश्वस्य शीर्षदशदेशेषु स्थापयितुं तथा 2047 पर्यन्तं शीर्षपञ्चदेशेषु स्थानं दातुम् अस्ति। एतेन समुद्रीसुरक्षा, वाणिज्यसामर्थ्यं तथा औद्योगिकविकासः अधिकं सुदृढः भविष्यति।

केन्द्रीयमन्त्री अवदत् यत् समुद्रीक्षेत्रे तथा नौकानिर्माणोद्योगे आत्मनिर्भरभारतस्य दिशि तीव्रतया कार्यं क्रियते, तथा उद्योगजगत् भविष्यस्य प्रौद्योगिकीसम्बद्धानां आव्हानानां अवसराणां च कृते सज्जं भवितुम् आवश्यकम्।

तेन हिन्दमहासागरप्रदेशे “दशडिग्री चैनल” इत्यस्य सामरिकमहत्त्वम् अपि निर्दिष्टम्। सः अवदत् यत् एषः मार्गः भारतस्य सुरक्षायै वाणिज्यहिताय च अत्यन्तमहत्त्वपूर्णः समुद्रीमार्गः अस्ति।

शान्तनु ठाकुरः अवदत् यत् दृढा पत्तनसंरचना, आधुनिकनौकानिर्माणक्षमता तथा सक्रियः समुद्रीउद्योगः एतेषां साहाय्येन भारतं दक्षिणएशियायां समुद्रीनैत्वं स्थापयितुं समर्थम् अस्ति। अन्ते सः सर्वान् हितधारकान् आह्वयत् यत् ते मिलित्वा देशस्य समुद्रीदृष्टेः साकारार्थं सहकार्यं कुर्वन्तु।-----------------------

हिन्दुस्थान समाचार