राष्ट्रीय–महिला–आयोगः भवतः द्वारे — जयपुरनगरे ९ मार्चदिनाङ्के महिला–जनश्रवणम्
जयपुरनगरम्, ०६ मार्चमासः (हि.स.) — महिलानां समस्यासु त्वरित–समाधानस्य तासां न्याय–प्राप्तेः च उद्देशेन नव–मार्चदिनाङ्के जयपुरनगरे ‘राष्ट्रीय–महिला–आयोगः भवतः द्वारे’ इति कार्यक्रमस्य अन्तर्गतं महिला–जनश्रवणम् आयोजितं भविष्यति। अस्मिन् जनश्रवणे राष्
फाइल


जयपुरनगरम्, ०६ मार्चमासः (हि.स.) — महिलानां समस्यासु त्वरित–समाधानस्य तासां न्याय–प्राप्तेः च उद्देशेन नव–मार्चदिनाङ्के जयपुरनगरे ‘राष्ट्रीय–महिला–आयोगः भवतः द्वारे’ इति कार्यक्रमस्य अन्तर्गतं महिला–जनश्रवणम् आयोजितं भविष्यति। अस्मिन् जनश्रवणे राष्ट्रीय–महिला–आयोगस्य अध्यक्षा विजया–रहाटकर स्वयमेव उपस्थाय महिलानां सूचना: समस्याश्च श्रोष्यति। एतत् जनश्रवणम् सोमवासरे प्रातः ११ वादनात् राजस्थान–आरक्षक–अकादम्याः सभाकक्षे आयोजितं भविष्यति।कार्यक्रमस्य अवसरे महिलाभिः सम्बद्धानां विविध–प्रकाराणां सूचशानां यथा पारिवारिक–विवादाः, गृह–हिंसा, उत्पीडनम्, सम्पत्ति–विवादाः तथा अन्याः सामाजिक–समस्याः इत्यादिनां विषये श्रवणं कृत्वा तेषां समाधानार्थं आवश्यकाः दिशा–निर्देशाः अपि प्रदास्यन्ते। जनपद–समाहर्ता जितेन्द्र–कुमार–सोनी कार्यक्रमस्य सफल–सुचारु–आयोजनार्थं सम्बन्धित–विभागानां अधिकारिणः आवश्यक–दायित्वानि निर्दिष्टवान्।

तेन निर्देशितं यत् जनश्रवणे प्राप्तानां सूचनानां त्वरित–निस्तारणार्थं सर्वे विभागाः पूर्णतया सज्जाः उपस्थिताः स्युः तथा महिलाभ्यः आवश्यकं सहयोगं प्रदद्यु:। कार्यक्रमस्य व्यवस्थापन–समन्वयार्थं अरुण–कुमारः (जयपुर–दक्षिण–उपखण्ड–अधिकारी) समग्र–प्रभारी कृतः अस्ति।

तस्य नेतृत्वे विभिन्न–विभागानां अधिकारिणः कार्यक्रमस्य व्यवस्थां, सूचनानां संकलनं तेषां समाधान–प्रक्रियायाः सुनिश्चितीकरणं च करिष्यन्ति। जनपद–प्रशासनेन महिलाभ्यः आह्वानं कृतं यत् यासां कस्यापि प्रकारस्य समस्या अथवा सूचनास्ति, ताः अस्मिन् जनश्रवणे उपस्थित्य स्ववचनं प्रत्यक्षतया राष्ट्रीय–महिला–आयोगस्य अध्यक्षायाः समक्षं प्रस्तोतुं शक्नुवन्ति। अस्य उपक्रमस्य उद्देश्यं महिलानां अधिकार–विषये जागरूकतां वर्धयितुं तासां समस्यासु प्रभावी–समाधानं सुनिश्चितं कर्तुं च अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता