Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ मार्चमासः (हि.स.)।पश्चिम–एशियायाः संकटे स्वर्ण–भण्डारस्य तीव्र–वृद्ध्या देशस्य विदेशी–मुद्रा–भण्डारः २७ फरवरीमासे समाप्तसप्ताहे ४.८८५ अर्बुद-डॉलर्स–वृद्ध्या सह ७२८.४९४ अर्बुद-डॉलर्स–पर्यन्तं अभवत्, यः अधुना पर्यन्तस्य उच्चतमः स्तरः अभवत्।
रिजर्व–बैंक-ऑफ-इण्डिया (RBI) शुक्रवासरे प्रकाशितेषु विवरणेषु उक्तवान् यत् पूर्वसप्ताहे आहत्य विदेशी–मुद्रा–भण्डारः २.११ अर्बुद-डॉलर्स–न्यूनतां प्रति ७२३.६० अर्बुद-डॉलर्स आसीत्। अस्य वर्षस्य १३ फरवरीमासे समाप्तसप्ताहे विदेशी–मुद्रा–भण्डारः ७२५.७२ अर्बुद-डॉलर्स–उच्चतमं स्तरं प्राप्तम् अभवत्।
RBI–विवरणेषु २७ फरवरीमासे समाप्तसप्ताहे विदेशी–मुद्रा–भण्डारस्य मुख्यं घटकं मान्यते। विदेशी–मुद्रा परिसम्पत्तयः ५६.१ कोटि-डॉलर्स–वृद्ध्या ५७३.१२ अर्बुद-डॉलर्स अभवत्। उक्त-विवरणानुसारं, अस्मिन् अवधि–कालमध्ये स्वर्ण–भण्डारस्य मूल्यं ४.१४ अर्बुद-डॉलर्स–वृद्ध्या १३१.६३ अर्बुद-डॉलर्स अभवत्।
केंद्रीय–धनागारानुसारं, विशेष–आहरण–अधिकार (SDR) २.६ कोटिडॉलर्स–वृद्ध्यै १८.८७ अर्बुदडॉलर्स अभवत्। अस्मिन् अवधि–कालमध्ये अंताराष्ट्रिय–मुद्रा–कोषे (IMF) भारतस्य आरक्षित–भण्डारः अपि १५.८ कोटि-डॉलर्स–वृद्ध्या ४.८७ अर्बुदडॉलर्स–पर्यन्तम् अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता