इतिहासस्य पृष्ठेषु 08 मार्च : अंताराष्ट्रिय महिला दिवसः - संघर्षेण सम्माननं यावत् कथेयम्
अन्ताराष्ट्रियमहिलादिवसः प्रतिवर्षं मार्चमासस्य अष्टमे दिने सम्पूर्णे विश्वे अन्ताराष्ट्रियमहिलादिवसः उत्साहेन आचर्यते। अयं दिवसः महिलानां उपलब्धीनां तासां अधिकाराणां च समाजे तासां योगदानस्य सम्मानाय समर्पितः अस्ति। अद्यतनस्य सामाजिकमाध्यमयुगे जना
इतिहासस्य पृष्ठेषु 08 मार्च : अंताराष्ट्रिय महिला दिवसः - संघर्षेण सम्माननं यावत् कथेयम्


अन्ताराष्ट्रियमहिलादिवसः

प्रतिवर्षं मार्चमासस्य अष्टमे दिने सम्पूर्णे विश्वे अन्ताराष्ट्रियमहिलादिवसः उत्साहेन आचर्यते। अयं दिवसः महिलानां उपलब्धीनां तासां अधिकाराणां च समाजे तासां योगदानस्य सम्मानाय समर्पितः अस्ति। अद्यतनस्य सामाजिकमाध्यमयुगे जनाः स्वासां सम्बन्धिनीनां सखीनां सहकर्मिणीनां च महिलानां प्रति शुभकामनाः प्रेषयन्ति तथा च पुष्पैः पत्रिकाभिः चॉकलेटादिभिः अन्यैः उपहारैः च तासां सम्मानं प्रकटयन्ति।

अन्तरराष्ट्रीयमहिलादिवसस्य आरम्भः 1908 तमे वर्षे जातात् महता महिला श्रमिक आन्दोलनात् मन्यते। तस्मिन् समये प्रायः पञ्चदशसहस्राणि महिलाः न्यूयॉर्कनगरे प्रदर्शनं कृतवन्त्यः। एताः महिलाः कार्यसमयस्य न्यूनतां उत्तमवेतनं कार्यसम्बद्धान् अधिकारान् च याचितवन्त्यः। एषः आन्दोलनः महिलानां अधिकारार्थं नूतनां दिशं प्रदत्तवान्।

तस्य एकवर्षानन्तरं सोशलिस्टपार्टीऑफअमेरिका इति संस्थया 1909 तमे वर्षे प्रथमः राष्ट्रियमहिलादिवसः घोषितः। अनन्तरं 1910 तमे वर्षे कोपेनहेगननगरे आयोजिते अन्तरराष्ट्रीयसम्मेलने अस्य दिवसस्य वैश्विकस्तरे आयोजनस्य प्रस्तावः कृतः।

अन्ते 1975 तमे वर्षे यूनाइटेडनेशन्स इति संस्थया मार्चमासस्य अष्टमदिनं आधिकारिकरूपेण अन्ताराष्ट्रियमहिलादिवसत्वेन स्वीकृतम्। अद्य अयं दिवसः महिलानां अधिकारसमानतासशक्तीकरणयोः प्रतीकत्वेन प्रतिष्ठितः अस्ति।

महत्त्वपूर्णाः घटनाः

921 — स्पेनदेशस्य प्रधानमन्त्री एदुआर्दो दातो इरादियर संसद्भवनात् निर्गच्छन् हतः।

1702 — इङ्ग्लण्डदेशस्य राजा विलियम तृतीयस्य निधनानन्तरं महारानी एनी ब्रिटेनदेशस्य शासनं स्वीकृतवती।

1911 — अन्तरराष्ट्रीयमहिलादिवसः प्रथमवारम् आचरितः।

1942 — द्वितीयविश्वयुद्धकाले जापानी सेनाभिः बर्मादेशस्य रंगूननगरम् अधिगृहीतम्।

1948 — एयरइण्डियाइण्टरनेशनल इति संस्थाया स्थापना अभवत्।

1971 — अमेरिकादेशीयः मुक्केबाजः जो फ्रेजियर मोहम्मद अलीं पराजित्य पुनः विश्वहेवीवेट् उपाधिं प्राप्तवान्।

1985 — बेरूटनगरे मस्जिदसमीपे कारविस्फोटे अशीतिः जनाः मृताः शताधिकाः च आहताः।

2001 — इजराइलदेशे शेरोननेतृत्वे राष्ट्रियएकतासरकारः शपथं स्वीकृतवान्।

2006 — रूसदेशेन ईरानसम्बद्धं स्वप्रस्तावं प्रत्याहृतम्।

2008 — बम्बईशेयरबाजारेन नियमान् न पूरयन्तीनां दशसंस्थानां शेयरव्यवहारः निलम्बितः।

2009 — भारतस्य प्रसिद्धः गोल्फक्रीडकः ज्योति रंधावा थाइलैण्डओपन उपाधिं जितवान्।

2014 — क्वालालम्पुरतः बीजिङ्गनगरं प्रति गच्छन् मलेशियाएरलाइन्स् इत्यस्य विमानम् अदृश्यं जातम्।

2017 — मध्यप्रदेशे भोपाल उज्जैन यात्रीरेलयानस्य विस्फोटे आईएसआईएस् इति संस्थायाः संदेहः व्यक्तः।

2018 — नेफियू रियो नागालैण्डराज्यस्य नवममुख्यमन्त्रीरूपेण शपथं स्वीकृतवान्।

2018 — भारतस्य उच्चतम न्यायालयेन सशर्त इच्छा मृत्यु अनुमोदिता।

जन्मानि

1864 — हरि नारायण आपटे प्रसिद्धः मराठीभाषी उपन्यासकारः नाटककारः कविः च।

1889 — गोपीचन्द भार्गव गांधीस्मारकनिधेः प्रथमाध्यक्षः स्वतन्त्रतासेनानी पंजाबराज्यस्य प्रथममुख्यमन्त्री च।

1897 — दामेर्ला रामाराव भारतीयः कलाकारः।

1921 — साहिर लुधियानवी प्रसिद्धः गीतकारः शायरः च।

1953 — वसुन्धरा राजे सिंधिया राजस्थानराज्यस्य प्रथममहिलामुख्यमन्त्री।

1954 — दिगम्बर कामत गोवाराज्यस्य भूतपूर्वमुख्यमन्त्री।

1955 — जिम्मी जॉर्ज विश्वप्रसिद्धः वॉलीबॉलक्रीडकः।

1975 — फ़रदीन खान चलचित्राभिनेता।

1989 — हरमनप्रीत कौर भारतीयमहिलाक्रिकेटक्रीडिका।

1985 — रश्मि बंसल प्रसिद्धा भारतीयलेखिका।

निधनानि

1535 — रानी कर्णावती मेवाड़राज्यस्य रानी आसीत्।

1957 — बालगंगाधर खेर प्रसिद्धः भारतीयराष्ट्रीयनेता।

1977 — कृष्णचन्दर हिन्दी उर्दूभाषयोः प्रसिद्धः कथाकारः।

1982 — राब बटलर प्रमुखः ब्रिटिशरूढ़िवादी राजनीतिज्ञः।

2015 — विनोद मेहता आउटलुकपत्रिकाया संस्थापकः प्रसिद्धः पत्रकारः।

2021 — अंशुमान सिंह राजस्थान गुजरात राज्ययोः भूतपूर्वराज्यपालः न्यायमूर्तिः च।

महत्त्वपूर्णः दिवसः

अन्तरराष्ट्रियमहिलादिवसः

हिन्दुस्थान समाचार