जन औषधि केंद्रेभ्यः प्रतिदिनं 15 लक्षात् अधिकाः क्रेष्यन्ति औषधम्- नड्डा
नवदिल्ली, 07 मार्चमासः (हि.स.)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जेपी नड्डा उक्तवान् यत् अद्य जनऔषधिदिवसः आचर्यते। अतः आवश्यकम् अस्ति यत् वयं प्रधानमन्त्रिणः भारतीयजनऔषधिपरियोजनायाः तां महत्वपूर्णां भूमिकां ज्ञातुम्, यस्य माध्यमेन देशस्य सर
केन्द्रीय स्वास्थ्य मंत्री जेपी नड्डा


नवदिल्ली, 07 मार्चमासः (हि.स.)।

केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जेपी नड्डा उक्तवान् यत् अद्य जनऔषधिदिवसः आचर्यते। अतः आवश्यकम् अस्ति यत् वयं प्रधानमन्त्रिणः भारतीयजनऔषधिपरियोजनायाः तां महत्वपूर्णां भूमिकां ज्ञातुम्, यस्य माध्यमेन देशस्य सर्वेषां जनानां समीपं सुलभमूल्येन औषधयः प्राप्यन्ते। मोदीसर्वकारस्य एषा पहल अल्पमूल्येन उपलब्धानां जेनेरिकऔषधीनां उपलब्धतां दृढां करोति।

नड्डा शनिवासरे एक्स इति सामाजिकमाध्यमे लिखितवान् यत् अद्य देशस्य नगरेषु, कस्बेषु तथा ग्रामेषु प्रायः १८००० जनऔषधिकेन्द्राणि सञ्चालितानि सन्ति, ये जनानां गृहाणां समीपे आवश्यकाः औषधयः प्रददति। एतानि केन्द्राणि परिवाराणां स्वास्थ्यसम्बद्धव्ययस्य नियन्त्रणाय साहाय्यं कुर्वन्ति तथा उपचारस्य आर्थिकभारं न्यूनं कुर्वन्ति।

अधुना प्रतिदिनं पञ्चदशलक्षाधिकाः जनाः एतेभ्यः केन्द्रेभ्यः औषधयः क्रयन्ति। अस्य कारणात् जनऔषधिकेन्द्राणि लक्षाधिकजनानां कृते विश्वसनीयम् अल्पव्यययुक्तं च स्वास्थ्यसमाधानं जातानि सन्ति।

उल्लेखनीयम् अस्ति यत् जनऔषधिदिवसः भारतस्य रसायनउर्वरकमन्त्रालयस्य अधीनस्थेन औषधिविभागेन आयोजितः वार्षिकः जागरूकताअभियानः अस्ति। प्रतिवर्षं मार्चमासस्य सप्तमे दिने अस्य दिवसस्य आयोजनं क्रियते। अस्य उद्देश्यः जनान् जेनेरिकऔषधीनां विषये अवगतिं दातुं तथा सुलभमूल्येन औषधीनां उपयोगाय प्रेरयितुम् अस्ति।

अस्य अवसरस्य निमित्तं देशस्य विभिन्नेषु स्थानेषु बहवः कार्यक्रमाः आयोज्यन्ते, यथा स्वास्थ्यशिविराणि, जागरूकताअभियानानि, निःशुल्कपरीक्षणानि, परामर्शसेवा तथा जनऔषधिकेन्द्राणां विषये जानकारी। एतेषां कार्यक्रमाणां माध्यमेन जनाः ज्ञाप्यन्ते यत् ते अल्पमूल्येन अपि उत्तमगुणयुक्ताः औषधयः प्राप्तुं शक्नुवन्ति।

------------

हिन्दुस्थान समाचार