पीएमएनएएम-अप्रेन्टिसशिप–मेलापकस्य आयोजनं ९ मार्चमासे
धनबादनगरम्, ०७ मार्चमासः (हि.स.)। झारखण्ड–राज्य–सर्वकारस्य श्रम–नियोजन–प्रशिक्षण–कौशल–विकास–विभागस्य अन्तर्गतं अवर–प्रादेशिक–नियोजनालयेन ९ मार्चमासे धनबाद–आईटीआई–परिसरे प्रधानमन्त्री–नेशनल–अप्रेन्टिसशिप–मेलापकस्य (पीएमएनएएम्) आयोजनं भविष्यति। अयं म
पीएमएनएएम-अप्रेन्टिसशिप–मेलापकस्य आयोजनं ९ मार्चमासे


धनबादनगरम्, ०७ मार्चमासः (हि.स.)। झारखण्ड–राज्य–सर्वकारस्य श्रम–नियोजन–प्रशिक्षण–कौशल–विकास–विभागस्य अन्तर्गतं अवर–प्रादेशिक–नियोजनालयेन ९ मार्चमासे धनबाद–आईटीआई–परिसरे प्रधानमन्त्री–नेशनल–अप्रेन्टिसशिप–मेलापकस्य (पीएमएनएएम्) आयोजनं भविष्यति। अयं मेलापक: प्रातः १०:०० वादनात् आरभ्स्यते।नियोजन–पदाधिकारिणी पद्मा–कुमारी अवदत् यत् अस्मिन् मेलापके धनबाद–जनपदस्य तकनीकी–प्रशिक्षिताः अभ्यर्थिनः यथा आईटीआई, डिप्लोमा, अभियान्त्रिकी तथा अल्पकालिक–कौशल–पाठ्यक्रमं सम्पन्नाः युवक–युवत्यः सहभागं कर्तुं शक्नुवन्ति। एतदतिरिक्तं गैर–तकनीकी छात्राः छात्र्यश्च, ये पञ्चमी–कक्षातः आरभ्य स्नातक–स्तरपर्यन्तं अध्ययनं कृतवन्तः सन्ति, ते अपि अस्मिन् मेलापके सम्मिलितुं शक्नुवन्ति। इच्छुक–अभ्यर्थिभिः अप्रेन्टिसशिप–पटले पञ्जीकरणं कर्तव्यम्।

मेलापके एमएसएमई, निर्माण–क्षेत्रे, सेवा–क्षेत्रे, होटल, रेस्टोरेंट, शॉपिंग–मॉल, चिकित्सालय:, कोचिंग–केन्द्रं, धनागार–इत्यादिषु क्षेत्रेषु सम्बद्धाः नियोक्तारः अपि सहभागं करिष्यन्ति तथा योग्य–अभ्यर्थिभ्यः अप्रेन्टिसशिप–अवसरान् प्रदास्यन्ति।

अभ्यर्थिनः स्वानि सर्वाणि शैक्षणिक–तथा–तकनीकी–प्रमाणपत्राणि, आधार–पत्रम्, दूरभाष–संख्या, ई–मेल–परिचयः तथा पासपोर्ट–आकारस्य छायाचित्रं इत्येतै: सह ९ मार्चमासे प्रातः १० वादने धनबाद–आईटीआई–परिसरं प्राप्य मेलापके सहभागं कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता