Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 07 मार्चमासः (हि.स.)।शनिवासरे प्रधानमन्त्री नरेन्द्रमोदी कोटा-विमानस्थानस्य शिलान्यास-समारोहं वीडियोसन्देशेन सम्बोधयन् अवदत् यत् अयं आधुनिकः विमानस्थानः हाड़ौती-प्रदेशस्य विकासाय नूतनां गतिं दास्यति तथा आगामिषु कालेषु अत्र व्यापारः पर्यटनं च रोजगारावसराश्च शीघ्रं वर्धिष्यन्ति।
प्रधानमन्त्री अवदत् यत् कोटा, बूंदी, बारां, झालावाड़ इत्येतैः सह समग्रस्य हाड़ौती-प्रदेशस्य कृते अद्य नूतनाशायाः नूतनसिद्धेश्च दिवसः अस्ति। प्रायः १५०० कोटिरूप्यकव्ययेन निर्मीयमाणः अयं आधुनिकः विमानस्थानः भविष्ये समग्रप्रदेशस्य विकासाय नूतनां गतिं दास्यति।
ते अवदन् यत् यदा अयं विमानस्थानः प्रवर्तिष्यते तदा कोटा-सहिते समग्रे प्रदेशे यात्रायाḥ सुविधा वर्धिष्यते तथा व्यापारोऽपि तीव्रतया वर्धिष्यति। पूर्वं जनाः हवाईयात्रायै जयपुरं वा जोधपुरं गन्तुं बाध्याः आसन्, किन्तु अधुना प्रदेशवासिनां कृते महान् उपकारः भविष्यति।
प्रधानमन्त्री कोटां शिक्षाया ऊर्जा-क्षेत्रस्य च अद्वितीयं केन्द्रम् इति वर्णयन् अवदत् यत् अत्र परमाणु-ऊर्जा, कोयल-ऊर्जा, गैस-ऊर्जा तथा जल-ऊर्जया विद्युतुत्पादनं क्रियते। कोटा-डोरिया-साड्यः, कोटा-शिला, बूंदीप्रदेशस्य बासमती-धान्यम् इत्यादयः स्थानीय-उत्पादाः अपि अस्य विमानस्थानस्य माध्यमेन नूतनं परिचयं विस्तीर्णं च बाजारं प्राप्स्यन्ति।
अस्य प्रदेशस्य पर्यटनक्षेत्रे अपि अपरिमिताः सम्भावनाः सन्ति। श्रीमथुराधीशमन्दिरम्, गरड़िया-महादेव-क्षेत्रम् तथा मुकुंदरा-हिल्स-प्रदेशः इत्यादयः धार्मिकाः प्राकृतिकाश्च स्थलाः देशविदेशेभ्यः पर्यटकान् आकर्षयितुं समर्थाः सन्ति। उत्तमेन हवाईसंपर्केण युवानां व्यापारिणां तथा स्थानीय-अर्थव्यवस्थायाः प्रत्यक्षः लाभः भविष्यति।
प्रधानमन्त्री अवदत् यत् कोटायां संपर्कक्षेत्रे शीघ्रगत्या कार्यं प्रवर्तते। अमृतभारत-स्टेशन-योजनायाः अन्तर्गतं कोटानगरस्य द्वे प्रमुखे रेलस्थानके आधुनिकसुविधाभिः सुसज्जिते क्रियमाणे स्तः, तथा दिल्ली-मुंबई-एक्सप्रेसवे कोटा-बूंदी-प्रदेशयोः माध्यमेन गच्छन् समग्रप्रदेशस्य विकासाय नूतनं द्वारं उद्घाटयति।
ते अपि अवदन् यत् देशे २०१४ वर्षे केवलं ७० विमानस्थानानि आसन्, अद्य तेषां संख्या १६० अधिकानि अभवत्। सः विश्वासं व्यक्तवान् यत् कोटायाः नूतनं विमानस्थानम् अपि एवमेव प्रदेशस्य विकासाय नूतनां दिशां प्रदास्यति।
प्रधानमन्त्री कोटाक्षेत्रस्य सांसदं लोकसभाध्यक्षं ओमबिरला इत्येतस्य अपि प्रशंसां कृत्वा अवदत् यत् तेन प्रदेशस्य विकासाय निरन्तरं प्रयत्नाः कृताः। सः अवदत् यत् दृढसंकल्पेन तथा द्विइंजनसरकारस्य सहकारेण राजस्थानं शीघ्रगत्या विकासमार्गे अग्रे गच्छति तथा विकसितराजस्थानम् विकसितभारतस्य संकल्पं अधिकं दृढीकरोति।
--------------
हिन्दुस्थान समाचार