नेपालस्य नव–सर्वकारेण सह कार्यं कर्तुं भारतदेश: प्रतिबद्धः — मोदी
नवदिल्ली, ०७ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे उक्तवान् यत् भारतदेश: पार्श्ववर्तीमित्रं तथा समीपवर्ती राष्ट्रं इति दृष्ट्या नेपालस्य जनैः सह तथा तत्रत्य नवसर्वकारेण सह कार्यं कर्तुं पूर्णरूपेण प्रतिबद्धः। प्रधानमन्त्री मोदी नेप
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, ०७ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे उक्तवान् यत् भारतदेश: पार्श्ववर्तीमित्रं तथा समीपवर्ती राष्ट्रं इति दृष्ट्या नेपालस्य जनैः सह तथा तत्रत्य नवसर्वकारेण सह कार्यं कर्तुं पूर्णरूपेण प्रतिबद्धः।

प्रधानमन्त्री मोदी नेपालदेशे संसदीय–निर्वाचनस्य सफलं शांतिपूर्णं च आयोजनं दृष्ट्वा तत्रत्य जनानां तथा सर्वकारस्य हार्दिकं अभिनन्दनं कृतवान्। सः उक्तवान् यत् नेपालस्य नेपाली–भ्रातृ–भगिन्यः लोकतांत्रिक–अधिकाराणां प्रयोगं उत्साहेन जीवंततया कुर्वन्ति इत्येतत् दृष्ट्वा हर्षः जातः। एषा ऐतिहासिक–उपलब्धिः नेपालस्य लोकतांत्रिक–यात्रायाः गर्वकरं क्षणं अस्ति।

सः उक्तवान् यत् भारतदेश: पार्श्ववर्तीमित्रं तथा समीपवर्तीराष्ट्रं इति दृष्ट्या नेपालस्य जनैः नवसर्वकारेण च सह शांति–प्रगति–समृद्धेः नूतनान् आयामान् स्थापयितुं प्रतिबद्धः। भारत–नेपाल–मित्रता–सहयोगस्य सम्बन्धा: भाविष्ये अधिकं दृढतया विकसिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता