विक्रमोत्सवः 2026: उज्जैने अद्य सज्जीकरिष्यते अखिलभारतीयं कवयित्रीसम्मेलनम्
- देशस्य विख्यातः कवयित्रीगणः स्वरचनाभिः करिष्यति नारी शक्तये नमनम् उज्जैनम्, 07 मार्चमासः (हि.स.)। मध्यप्रदेशराज्यस्य उज्जयिनीनगरे विक्रमोत्सवस्य 2026 भव्यकार्यक्रमाणां श्रेण्यां अन्तर्गतं अन्ताराष्ट्रियमहिलादिवसस्य पूर्वसन्ध्यायाम् अद्य शनिवा
विक्रमोत्सव 2026


- देशस्य विख्यातः कवयित्रीगणः स्वरचनाभिः करिष्यति नारी शक्तये नमनम्

उज्जैनम्, 07 मार्चमासः (हि.स.)।

मध्यप्रदेशराज्यस्य उज्जयिनीनगरे विक्रमोत्सवस्य 2026 भव्यकार्यक्रमाणां श्रेण्यां अन्तर्गतं अन्ताराष्ट्रियमहिलादिवसस्य पूर्वसन्ध्यायाम् अद्य शनिवासरे रात्रौ अष्टवादनात् आरभ्य “नारीशक्ति” विषयकेन्द्रितं भव्यं अखिलभारतीयकवयित्रीसम्मेलनम् आयोजितं क्रियते। अयं गरिमामयः कार्यक्रमः कालिदाससंस्कृतअकादम्याः बहिरङ्गमञ्चे सम्पन्नः भविष्यति।

विक्रमोत्सवआयोजनसमितेः सदस्यः राजेशसिंहकुशवाहः सूचितवान् यत् अस्मिन् सम्मेलने देशस्य ख्याताः कवयित्र्यः काव्यपाठं करिष्यन्ति। कार्यक्रमे हास्यव्यङ्ग्य ओजः श्रृङ्गारः देशभक्तिः करुणा च इत्येतेषां विविधरङ्गैः अलङ्कृतानां रचनानां गीतानां गजलानां च प्रस्तुति भविष्यति।

महाराजविक्रमादित्यशोधपीठस्य निदेशकः श्रीरामतिवारी महोदयः नगरस्य सर्वान् रसिकश्रोतॄन् साहित्यप्रेमिणः च निवेदितवान् यत् ते अधिकाधिकसंख्यया उपस्थिताः भूत्वा नारीशक्तये समर्पितं एतत् साहित्यिकानुष्ठानं सफलं कुर्वन्तु।

सम्मेलने आमन्त्रिताः प्रमुखाः कवयित्र्यः सन्ति — बलजीतकौर “तन्हा” (नई दिल्ली), मीरादिक्षित (हाथरस), मोनिकाहटेला (भुज), शिवाङ्गीशर्मा (भोपाल), श्रद्धाशौर्य (नागपुर), आभाश्रीवास्तव (प्रयागराज), प्रियंकामिश्रा (कटनी), श्वेतासिंह (बडोदरा) च।

---------------

हिन्दुस्थान समाचार