Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ मार्चमासः (हि.स.)। प्रधानमंत्री नरेन्द्रमोदी तथा भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्ष: नितिननवीन: शनिवासरे गुजरात–विधानसभासद: गोविंदभाईपरमारस्य निधनस्य विषये शोकं व्यक्तवन्तौ। उभाभि: नेतृभिः उक्तं यत् परमारः सदा समाज–कल्याणकार्येषु समर्पित: आसीत्। परमारस्य निधनम् ६ मार्चमासे ७२ वर्ष–आयुषि अभवत्।
प्रधानमन्त्री मोदी एक्समध्ये उक्तवान् — “गुजरात–विधानसभा–सदस्यस्य गोविंदभाईपरमारस्य निधनस्य समाचारात् मम हृदयं दुःखितम्। स: सदा समाज–कल्याणकार्येषु समर्पित: तथा प्रतिबद्ध: आसीत्। दिवंगतात्मन: शान्त्यर्थं प्रार्थना, दुःखित–कुटुम्बाय हार्दिकी संवेदना।”
भाजपा–राष्ट्रीयाध्यक्ष: नितिननवीन: अपि उक्तवान् — “गुजरातात् भाजपा–विधानसभासद: गोविंदभाईपरमारस्य निधनात् महती दुःखं मम अभवत्। समर्पितः जनसेवकः, स: उमरेठ–जनानां कल्याणं विकासं च निःश्रमेण कृतवान्।”
हिन्दुस्थान समाचार / Dheeraj Maithani