अन्ताराष्ट्रिय–महिला–दिवसावसरे ‘शि लीड्स भारत’–शक्ति–वॉक कर्तव्य–पथे आरम्भः, ३००० महिला: सहभागं करिष्यन्ति
नवदिल्ली, ०७ मार्चमासः (हि.स.)। अन्ताराष्ट्रिय–महिला–दिवस–अवसरे केन्द्रसर्वकार: ८ मार्चमासे कर्तव्य–पथे शक्ति–वॉक ‘शी लीड्स भारत’ आयोजयिष्यति। केंद्रीयमहिला एवं बाल–विकास–मन्त्रालयानुसारं, एषा पदयात्रा प्रातः ७.३० वादने आरभ्य १०.०० वादनपर्यन्तं आय
अंतरराष्ट्रीय महिला दिवस पर कर्तव्य पथ पर निकलेगी शक्ति वॉक ‘शी लीड्स इंडिया’,


नवदिल्ली, ०७ मार्चमासः (हि.स.)। अन्ताराष्ट्रिय–महिला–दिवस–अवसरे केन्द्रसर्वकार: ८ मार्चमासे कर्तव्य–पथे शक्ति–वॉक ‘शी लीड्स भारत’ आयोजयिष्यति।

केंद्रीयमहिला एवं बाल–विकास–मन्त्रालयानुसारं, एषा पदयात्रा प्रातः ७.३० वादने आरभ्य १०.०० वादनपर्यन्तं आयोज्यते। प्रायः २ किलोमीटर दूरी इंडिया–गेटतः विजय–चतुष्पथपर्यन्तं कर्तव्य–पथे यात्रा प्रदर्श्यते। अस्मिन् वॉक १५० तः अधिकमंत्रालयाः, विभागाः, तथा संस्थाः सम्मिल्य ३००० महिला: सहभागं करिष्यन्ति।

कार्यक्रमे सशस्त्र–बलं, आरक्षक:, माध्यम–संचार:, स्वास्थ्यम्, क्रीडा, उद्योग:, सर्वकारी–संस्थाः, तथा भूतल–संघटनैः सम्बन्धिताः महिला: सम्मिल्यन्ते। प्रतिभागिन्यः ‘शी लीड्स भारत’–विषयक–विषयेण एकत्रिताः महिलायाः भूमिका–उल्लेखं करिष्यन्ति।

वॉकनेतृत्वे महिला–जनप्रतिनिधिभिः कृत्यते, यत्र केंद्रीय–मन्त्रिण:, राज्य–मन्त्रिण:, सांसदाः, विधायकाः, तथा विभिन्नक्षेत्रेषु प्रमुखा: महिला–प्रतिभाः सम्मिल्यन्ति। कार्यक्रमस्य प्रारम्भः गणमान्य–व्यक्तिनां संक्षिप्त–संवादेन भविष्यति, अनन्तरं वॉक–कार्यक्रमं हरित–ध्वजदर्शनेन आरभ्यते।

कर्तव्य–पथे महिला–संबद्धा: प्रमुख–सर््कारी–योजनाः तथा विभिन्नक्षेत्रेषु महिला–सिद्धयः प्रदर्शिनी–रूपेण दर्क्ष्यन्ते। इंडिया–गेट इत्यत्र सांस्कृतिक–कार्यक्रमः आयोज्यते, यत्र ‘वन्दे मातरम्’–सामूहिक–प्रस्तुति:, डोल्लु–कु्निथा, कलारिपयट्टू, श्रृंगारिमेलम्, रणचण्डी, घूमर इत्यादय: पारम्परिक–नृत्य–प्रस्तुतयः भविष्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani