टी–२० निर्णायकक्रीडायै रेलविभागस्य विशेष–प्रयत्न:, नवदिल्लीतः साबरमतीं प्रति अद्य रात्रौ विशेष-रेलयानं सञ्चालयिष्यते
नवदिल्ली, ०७ मार्चमासः (हि.स.)। अहमदाबादनगरे रविवासरे आयोज्यमाने क्रिकेट–टी–२० विश्वकप–फाइनल–स्पर्धायाः दृष्ट्या भारतीय–रेलवे–विभाग: दर्शकाणां सौविध्यर्थं नवदिल्ली–साबरमतीमार्गे विशेष–रेलयानं सञ्चालितुं निर्णयं कृतवान्। वर्द्धित–वायु–भाटकं तथा सीमि
भारतीय रेलवे का लोगो


नवदिल्ली, ०७ मार्चमासः (हि.स.)। अहमदाबादनगरे रविवासरे आयोज्यमाने क्रिकेट–टी–२० विश्वकप–फाइनल–स्पर्धायाः दृष्ट्या भारतीय–रेलवे–विभाग: दर्शकाणां सौविध्यर्थं नवदिल्ली–साबरमतीमार्गे विशेष–रेलयानं सञ्चालितुं निर्णयं कृतवान्। वर्द्धित–वायु–भाटकं तथा सीमित–पत्रक–उपलब्धता–परिस्थितिं दृष्ट्वा एषः निर्णय: कृतः, यतः स्पर्धा–दर्शकाणां यात्रा–सुविधाबाधितं न भूयात्।रेल–अधिकारिणां अनुसारं, विशेष–रेलयानसंख्या ०४०६२ शनिवासरे रात्रौ प्रायः ११ वादने ४५ निमेषे नवदिल्ली–रेलवे–स्थानकात् प्रस्थानं करिष्यति। एषा गन्त्री दिल्ली–कैंट, गुरुग्राम, जयपुर च प्रमुख–स्थानकेषु विश्रामं ग्रहीष्यति, अनन्तरं रविवासरे ०२ वादने ३० निमेषे साबरमतीं आगमिष्यति।

अस्यां विशेष–रेखायाम् १९ वर्गा: स्थापिताः सन्ति। यात्रिणां सौविध्यर्थम् एसी–३ तथा एसी–२ श्रेणी–वर्गा: सम्मिलिताः सन्ति, यतः दीर्घ–दूरी–यात्रां कर्तुं आगतानां दर्शकाणां सुखकर–यात्रा सुनिश्चिता भविष्यति।

अधिकारिणः उक्तवन्त: यत् भारत–विरुद्ध–न्यूजीलैण्ड–टी–२० विश्वकप–२०२६–निर्णायक–क्रीडाया: दृष्ट्या देशव्यापिनां क्रिकेट–प्रेमिणां मध्ये महती उत्सुकता वर्तते, तथा बहवः जनाः अहमदाबादे नरेन्द्रमोदी–प्रांगणं प्रति गमनाय योजनां कुर्वन्ति। अतः यात्रिणां अतिरिक्त–सम्मर्दस्य व्यवस्थायै तथा यात्रा–सुगमतायै एतत् विशेष–रेलयानं सञ्चाल्यते।

रेलवे यात्रिणः प्रति आह्वानं कृत्वा उक्तवान् यत् ते यात्रा–पूर्वं चिटिका–उपलब्धता तथा समयस्य सूचना रेलवे–अधिकृत–वेबसाइट अथवा मान्य–संस्थात्रात् प्राप्नुयुः, यतः यात्रायाम् कापि समस्या न भवेत्।

हिन्दुस्थान समाचार / अंशु गुप्ता