गौ प्रतिष्ठार्थं धर्म युद्ध यात्राम् आधृत्य लखनऊनगरस्य कृते निर्गतः अविमुक्तेश्वरानंदः
वाराणसी, 07 मार्चमासः(हि.स.)। ज्योतिर्मठस्य शङ्कराचार्यः अविमुक्तेश्वरानन्दजी महाराजः शनिवासरे वाराणस्यां श्रीविद्यामठात् गोरक्षार्थं “गौप्रतिष्ठार्थधर्मयुद्धयात्रा” इत्यस्य आरम्भं कृतवान्। एषा यात्रा अद्य एव जौनपुरं प्राप्स्यति, ततः अनन्तरं सुल्
यात्रा पर निकलते शंकराचार्य अविमुक्तेश्वरानंद


वाराणसी, 07 मार्चमासः(हि.स.)।

ज्योतिर्मठस्य शङ्कराचार्यः अविमुक्तेश्वरानन्दजी महाराजः शनिवासरे वाराणस्यां श्रीविद्यामठात् गोरक्षार्थं “गौप्रतिष्ठार्थधर्मयुद्धयात्रा” इत्यस्य आरम्भं कृतवान्। एषा यात्रा अद्य एव जौनपुरं प्राप्स्यति, ततः अनन्तरं सुल्तानपुरं, रायबरेली, उन्नाव, हरदोई, सीतापुरं च गत्वा मार्चमासस्य एकादशदिने उत्तरप्रदेशस्य राजधानीं लखनऊनगरं प्राप्स्यति। लखनऊनगरे शङ्कराचार्यः अविमुक्तेश्वरानन्दः एकां विशालां सभां करिष्यति।

यात्रारम्भस्य अवसरः शङ्कराचार्यः अविमुक्तेश्वरानन्दजी महाराजः अवदत् यत् वयं गाम् मातृरूपेण मानयामः, अतः अस्माकं आग्रहः अस्ति यत् सरकारः अपि तस्याः मातृत्वस्य अंकितं दद्यात्। अस्य उद्देश्यस्य सिद्ध्यर्थं एषा गौप्रतिष्ठार्थधर्मयुद्धयात्रा आरब्धा अस्ति, या विशालसमूहेन सह लखनऊनगरे जनसभया सह समाप्ता भविष्यति।

---------------

हिन्दुस्थान समाचार