उपमुख्यमंत्रिणः केशव मौर्यस्य उदग्रविमाने आपन्ना तकनीकीविकृतिः, अमौसीविमानपत्तनके कृता आकस्मिकावतरणम्
लखनऊ, 07 मार्चमासः (हि.स.)। उत्तर प्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यस्य उदग्रविमाने शनिवासरे तकनीकीदोषः जातः। तस्मात् उदग्रविमानस्य लखनऊनगरस्य अमौसीविमानपत्तने आपत्कालीनावतरणं कर्तुं अभवत्। हेलिकॉप्टरयाने उपविष्टः उपमुख्यमन्त्री सहिताः सर्वे
फाइल फोटो


लखनऊ, 07 मार्चमासः (हि.स.)। उत्तर प्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यस्य उदग्रविमाने शनिवासरे तकनीकीदोषः जातः। तस्मात् उदग्रविमानस्य लखनऊनगरस्य अमौसीविमानपत्तने आपत्कालीनावतरणं कर्तुं अभवत्। हेलिकॉप्टरयाने उपविष्टः उपमुख्यमन्त्री सहिताः सर्वे जनाः सुरक्षिताः सन्ति। ततः अनन्तरं सः अन्येन हेलिकॉप्टरयानेन कौशाम्बीजनपदं प्रति प्रस्थितः।

शनिवासरे उपमुख्यमन्त्रिणः केशवप्रसादमौर्यस्य कौशाम्बीजनपदे कार्यक्रमः प्रस्तावितः आसीत्। तस्मिन् कार्यक्रमे सहभागित्वाय सः प्रातःकाले हेलिकॉप्टरयानेन प्रस्थितः। तत् लखनऊस्थितात् तस्य शासकीयावासात् कालिदासमार्गात् समीपस्थात् लामार्टविद्यालयस्य क्रीडाङ्गणात् उड्डितम्। लामार्टक्रीडाङ्गणात् कौशाम्बीगमनाय प्रस्थानात् किञ्चित्कालानन्तरमेव चालकाय तस्मिन् याने तकनीकीदोषस्य अनुभूति अभवत्। हेलिकॉप्टरस्य अन्तः धूमः पूरितः अभवत्।

तदा पर्यन्तम् उदग्रविमानं रायबरेलीजनपदस्य बछरावां क्षेत्रं प्राप्तम् आसीत्। चालकः प्राज्ञतां दर्शयित्वा हेलिकॉप्टरं पुनः लखनऊनगरं प्रति परिवर्त्य अमौसीविमानपत्तने सुरक्षितं अवतारितवान्।

उपमुख्यमन्त्रिणः कार्यालयस्य अनुसारम् अद्य कौशाम्बीजनपदे तस्य कतिपये कार्यक्रमाः प्रस्ताविताः आसन्। तेषु सहभागित्वाय सः प्रातःकाले उदग्रविमानेन प्रस्थितः। बछरावांप्रदेशं प्राप्ते सति चालकाय तकनीकीदोषस्य आभासः जातः, तदा विलम्बं विना समीपस्थे लखनऊस्थिते अमौसीविमानपत्तने अवतरणं कृतम्। उदग्रविमाने उपविष्टाः उपमुख्यमन्त्री केशवप्रसादमौर्यः सहिताः सर्वे जनाः सुरक्षिताः सन्ति। हेलिकॉप्टरस्य केबिनभागे अकस्मात् तकनीकीदोषात् धूमः उत्पन्नः आसीत्। अधुना अस्य विषयस्य अन्वेषणं क्रियते।

अनन्तरं किञ्चित्कालानन्तरं अन्येन हेलिकॉप्टरयानेन उपमुख्यमन्त्री केशवप्रसादमौर्यः कौशाम्बीजनपदं प्रति पुनः प्रस्थितः। सः तत्र आयोजिते सरसमहोत्सवे सहभागी अस्ति।

---------------

हिन्दुस्थान समाचार