महिलाः त्यागः, संघर्षः अथ सफलता इत्येषाम् आधारः
अंताराष्ट्रिय महिला दिवसे (8 मार्च) विशेषः-डा.लोकेश कुमारः भारतस्य सनातनसंस्कृतौ महिलानां तुलना देवताभिः सह क्रियते। ताः लक्ष्मी दुर्गा सरस्वती इव सर्वोच्चसम्मानस्य पवित्रतायाः शक्तेः मातृत्वस्य च प्रतीकरूपेण मन्यन्ते। एषा धारणा नार्यः पूजनीयाः त्
अंतरराष्ट्रीय महिला दिवस


अंताराष्ट्रिय महिला दिवसे (8 मार्च) विशेषः-डा.लोकेश कुमारः

भारतस्य सनातनसंस्कृतौ महिलानां तुलना देवताभिः सह क्रियते। ताः लक्ष्मी दुर्गा सरस्वती इव सर्वोच्चसम्मानस्य पवित्रतायाः शक्तेः मातृत्वस्य च प्रतीकरूपेण मन्यन्ते। एषा धारणा नार्यः पूजनीयाः त्यागतपस्याः मूर्तिरूपाः कुलपरिवारस्य रक्षिकाः च इति प्रतिष्ठापयति। एतत् केवलं स्तुतिः न, अपितु “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” इति सिद्धान्तानुसारं नारीशक्तेः आदरस्य प्रतीकः अपि अस्ति। महिलानां देवतारूपेण माननं तासां सम्मानस्य सर्वोच्चाभिव्यक्तिः अस्ति, यत् भारतीयसंस्कृतौ शक्तेः सृजनस्य च रूपे तासां महत्त्वं स्थापयति।

भारतीयसंस्कृतौ नारी दुर्गा काली इत्यादीनां रूपेण अपि मन्यते, यतः सा परिवारस्य संरक्षणस्य पोषणस्य नैतिकविकासस्य च आधारशिला अस्ति। सा लक्ष्मीरूपा अपि मन्यते, यतः गृहेषु सुखसमृद्धेः प्रतीकत्वेन तस्याः प्रतिष्ठा भवति। ज्ञानस्य सृजनस्य च रूपे सा सरस्वती इति अपि उच्यते, यतः महिलाः शिक्षा सृजनात्मकता ज्ञानप्रसारस्य च वाहकाः मन्यन्ते। सा मातृत्वस्य ममतायाः च प्रतिमूर्तिः इति अपि कथ्यते।

विश्वे प्रतिवर्षं मार्चमासस्य अष्टमे दिने अन्तर्राष्ट्रीय महिला दिवसः आचर्यते। प्रथमवारं 1909 तमे वर्षे फरवरीमासस्य अष्टाविंशतितमे दिने न्यूयॉर्क नगरे अमेरिकीय समाजवादी पक्षस्य आयोजनया “महिला दिवसः” आचरितः। तासां समर्थनार्थं कम्युनिस्टकार्यकर्त्री राजनीतिज्ञा च क्लारा जेटकिन “कार्यशील महिला दिवस” आचरणस्य प्रस्तावं कृतवती, यः 1910 तमे वर्षे कोपेनहेगन नगरे आयोजिते अन्ताराष्ट्रिय समाजवादी महिला सम्मेलने अनुमोदितः, किन्तु तस्य निश्चिततिथि तदा न निर्धारिताऽभूत्। 1917 तमे वर्षे रूसी क्रान्तौ महिलानां सक्रियभूमिकां दृष्ट्वा व्लादिमीर लेनिन 1922 तमे वर्षे मार्चमासस्य अष्टमे दिने अन्ताराष्ट्रिय महिला दिवसः घोषितवान्। ततः अनन्तरं समाजवादी आन्दोलनैः तथा कम्युनिस्टदेशैः अपि एषा तिथिः महिला दिवसस्य रूपेण आचरिता। 1975 तमे वर्षे संयुक्तराष्ट्रसंघेन अपि अष्टमे मार्चे अन्तर्राष्ट्रीय महिला दिवसः आधिकारिकतया आचरितुं आरब्धः। अनेकेषु देशेषु अस्मिन् दिने सार्वजनिकावकाशः अपि घोषितः भवति।

संविधाननिर्माता डॉ. भीमराव अम्बेडकर महिलाः सशक्ताः शिक्षिताः स्वाधीनाः च भवेरन् इति इच्छन्ति स्म। ते ताः सामाजिकप्रगतेः आधारः इति मन्यन्ते स्म। तेन हिन्दू कोड बिल इत्यस्य माध्यमेन महिलाभ्यः संपत्तौ विवाहे तलाके शिक्षायां च समानाधिकारं दातुम् ऐतिहासिकः प्रयासः कृतः। तस्य मतम् आसीत् यत् कस्यापि समाजस्य प्रगतिः तस्य समाजस्य महिलानां स्थित्या एव मीयते। महिला सशक्तीकरणस्य अर्थः अस्ति तासां स्वाधिकारज्ञानं तथा समाजे निर्णयग्रहणस्य शक्तिप्रदानं, येन सुदृढः संतुलितः च समाजः निर्मीयते।

अष्टमः मार्चः दिवसः सम्पूर्णे विश्वे नारीशक्तेः समर्पितः अस्ति। एषः दिवसः केवलं उत्सवः न, अपितु समाजे महिलानां योगदानस्य मान्यता तथा समानतायाः संघर्षस्य स्मरणम् अपि अस्ति। अस्मिन् दिने महिलाः स्वासां सामाजिक आर्थिक सांस्कृतिक राजनीतिक उपलब्धीनां उत्सवं मन्यन्ते तथा लैंगिकसमानतायाः समर्थनं कुर्वन्ति। ताः रैल्यः सेमिनाराः नेटवर्किंग कार्यक्रमाः सांस्कृतिककार्यक्रमाश्च भागं गृह्णन्ति। तथा च महिला केन्द्रित दानकार्येषु निधिसंग्रहः स्वास्थ्यशिविरगमनं स्वसहायतासमूहैः सह कार्यं च कुर्वन्ति।

अन्ताराष्ट्रियस्य महिला दिवसस्य आचरणस्य उद्देश्यः महिलानां सामाजिक आर्थिक सांस्कृतिक राजनीतिक उपलब्धीनां उत्सवः, लैंगिकसमानतायाः प्रोत्साहनं तथा तासां अधिकारविषये जागरूकतायाः प्रसारः इति मन्यते। एषः दिवसः महिलानां संघर्षस्मरणस्य तथा ताः सशक्ताः कर्तुं संकल्पग्रहणस्य अवसरः अपि अस्ति।

वैदिककाले अपि महिलाभ्यः पुरुषैः समं सम्मानः शिक्षायाः अधिकारः च प्राप्तः आसीत्। गार्गी मैत्रेयी इत्याद्याः विदुषी महिलाः तस्य उदाहरणानि सन्ति। एषा तुलना नारीसम्मानस्य प्रतीकः अस्ति, किन्तु कदाचित् महिलाः दैवीआदर्शस्य सीमासु बद्धाः वा रूढिवादचित्रे बद्धाः भवितुं कारणं भवितुम् अपि शक्नोति।

यत्र एकस्मिन् पक्षे महिलाः देवतारूपेण मान्यन्ते, तत्र अपरस्मिन् पक्षे तासां विरुद्धं हिंसा तथा असम्मानस्य उदाहरणानि अपि समाजे दृश्यन्ते। तथापि समाजे महिलानां भूमिका अत्यन्तं बहुआयामी महत्त्वपूर्णा च अस्ति। ताः केवलं परिवारस्य पालनपोषणं न कुर्वन्ति, अपितु शिक्षा स्वास्थ्य अर्थव्यवस्था राजनीति इत्यादिषु क्षेत्रेषु अपि महत्वपूर्णं योगदानं ददति। आधुनिककाले अपि ताः पारम्परिकगृहकर्तव्यैः सह कार्यजीवनं सफलतया वहन्ति, येन देशस्य सामाजिक आर्थिक विकासे महत्त्वपूर्णं योगदानं भवति।

महिला सशक्तीकरणस्य तात्पर्यं तासां अधिकारज्ञानं निर्णयशक्तिप्रदानं च, येन सुदृढः समतामूलकः च समाजः निर्मीयते। अस्मिन् दिवसे अस्माभिः महिलानां सम्मानः कर्तव्यः, ताभ्यः समानावसराः दातव्याः तथा समावेशी समाजः निर्मातव्यः यत्र प्रत्येकाः महिलाः निर्भयतया स्वस्वप्नानां सिद्धिं प्राप्तुं शक्नुवन्ति।

अद्य महिलाः शिक्षा विज्ञान राजनीति क्रीडासु सर्वेषु क्षेत्रेषु स्वसफलतायाः पताकां उत्तोलयन्ति। आधुनिकनारी पुरुषैः न्यूनाऽस्ति इति न, अपितु तैः सह स्कन्धे स्कन्धं मिलित्वा अग्रे गच्छति।

(लेखकः, स्वतंत्रः टिप्पणीकारोऽस्ति ।)

---------------

हिन्दुस्थान समाचार