Enter your Email Address to subscribe to our newsletters

- पर्यटकानां स्वागतेन प्रयाणं यावत् सर्वं महिलानां हस्तेषु, श्वशुर्यः-बध्वः, माता-पुत्री, देवरानी-जेष्ठा च सम्मिल्य चालयन्ति होम स्टेपथिकाश्रयान्
छिन्दवाडा, 07 मार्चमासः (हि.स.)।
मध्यप्रदेशस्य छिन्दवाडा जिलायां होम स्टे नामकस्य पर्यटननिवासव्यवसायस्य संचालनकार्ये महिलाः पुरुषेभ्यः अपि अधिकं प्रगताः दृश्यन्ते। मनेशी धुर्वे तथा अलका धुर्वे इत्येते छिन्दवाडा जनपदस्य धूसावानी नाम्नि पर्यटनग्रामे निवसन्त्यौ महिलौ सम्बन्धेन तु श्वश्रू स्नुषा स्तः। किन्तु यदा पर्यटकाः तयोः होम स्टे निवासे आगच्छन्ति तदा उभे मिलित्वा अतिथिसत्कारकार्ये प्रवृत्ते भवतः।
एवमेव सावरवानी ग्रामे अपि दृश्यते, यत्र मालती यदुवंशी स्वस्याः श्वश्रू शारदा यदुवंशी सह मिलित्वा होम स्टे व्यवसायं संचालनं करोति। छिन्दवाडा जिलस्य सर्वेषु पर्यटनग्रामेषु महिलाः अधुना होम स्टे व्यवसायस्य माध्यमेन आत्मनिर्भरत्वस्य नूतनां दृष्टान्तं प्रस्तुतवन्त्यः।
एते होम स्टे तासां केवलं आयस्य साधनं न भवन्ति, अपितु तासां सांस्कृतिकपरिचयं अपि विश्वस्य समक्षं प्रकाशयन्ति। परम्परायाः पर्यटनस्य च अयं संगमः महिलानां जीवनं नूतनदिशं प्रति नयति। विशेषतः छिन्दवाडा जिलस्य पर्यटनग्रामेषु सास स्नुषा तथा माता दुहिता मिलित्वा पर्यटकानां सेवां कुर्वन्ति, यत् आदर्शरूपेण दृश्यते। जिलस्य प्रत्येकस्य होम स्टे संचालनकार्ये महिलानां योगदानं अतुलनीयम् अस्ति।
मध्यप्रदेशे सर्वाधिकसंख्यया होम स्टे यत्र विद्यन्ते तेषु जिलेषु छिन्दवाडा प्रमुखः अस्ति। अधुना अस्यां जिलायां पञ्चाशताधिकाः होम स्टे संचालनं कुर्वन्ति। सर्वे अपि होम स्टे महिलानां नाम्नि एव पञ्जीकृताः सन्ति। एतेषु होम स्टे निवासेषु अधिकांशकार्याणि महिलाः एव वहन्ति। छिन्दवाडा जिलस्य सावरवानी चोपना काजरा देवगढ़ चिमटीपुर गुमतरा तथा धूसावानी इत्येषु पर्यटनग्रामेषु स्थानीयमहिलाः स्वपरम्परागतकर्तव्यानि पालनं कुर्वन्त्यः पर्यटनक्षेत्रे अपि सक्रियतया स्वपरिचयं स्थापयन्ति।
ग्रामस्य महिलाः अधुना पर्यटकानां कृते पारम्परिकं स्वादु च स्थानीयभोजनं स्वहस्ताभ्यां निर्माय प्रस्तुतयन्ति। ताः लोकनृत्य लोकगायनयोः माध्यमेन क्षेत्रस्य समृद्धां सांस्कृतिकपरम्परां अपि पर्यटकानां समक्षं दर्शयन्ति। अनेन पर्यटकानां स्थानीयसंस्कृतेः समीपतः परिचयस्य अवसरः लभ्यते, महिलानां च सम्मानजनकः आयसाधनः प्राप्तो भवति।
विशेषं यत् ग्रामस्य बह्व्यः महिलाः स्वयमेव होम स्टे संचालनं कुर्वन्ति तथा पर्यटकानां स्वागतं भोजनव्यवस्था सांस्कृतिककार्यक्रमव्यवस्थापनं च वहन्ति। पर्यटकानां विदायपर्यन्तं सर्वं कार्यं स्वकर्तव्यरूपेण स्वीकृत्य वहन्ति। अनेन ताः आत्मनिर्भराः भवन्ति तथा ग्रामीणपर्यटनस्य अपि प्रोत्साहनं कुर्वन्ति।
स्थानीयजनानां मतम् अस्ति यत् होम स्टे इत्यस्य अस्य प्रयासस्य कारणेन ग्राममहिलाः सशक्ताः भवन्ति तथा सर्वेषां पर्यटनग्रामाणां परिचयः अपि शीघ्रं वर्धते। आगामिषु कालेषु अत्र पर्यटनक्रियाकलापानां अधिकविस्तारस्य अपि अपेक्षा व्यक्ता क्रियते।
---------------
हिन्दुस्थान समाचार