Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०८ मार्चमासः (हि.स.) — बहुजन–समाज–पक्षस्य (बसपा)–राष्ट्रीयाध्यक्षा मायावती राष्ट्रपति-द्रौपदी मुर्मु–इत्यस्या: पश्चिम–बङ्गाल–प्रवासे जातस्य विवादस्य सम्बन्धे स्वप्रतिक्रियाम् अभिव्यक्तवती।
बसपा–प्रमुखा रविवासरे X–माध्यमे अपि लिखितवती – “भारतीय–संविधानस्य आदर्शानुसारं तथा मान–मर्यादानुसारं सर्वै: जनै: राष्ट्रपति–पदस्य सम्मानं करणीयम्। तस्य नियमस्य अपि पालयनं आवश्यकम्। अस्य पदस्य केनापिरूपेण राजनीतिकरणं न शोभते। वर्तमानकाले राष्ट्रपति न केवलं स्त्री अस्ति, अपितु आदिवासी–समाजात् अपि जाता। तथापि पश्चिम–बङ्गाल–प्रवासे जात: य: विवादः, तत् न उचितम्। एषः अति–दुर्भाग्यपूर्णः।”
सा अपि लिखितवती – “एवं गत समये संसदे अपि, विशेषतः लोकसभा–अध्यक्ष–पदस्य राजनीतिकरणं कृतम्, तत् अपि उचितम् नास्ति। सर्वे जना: संवैधानिक–पदं दलगत–राजनीतिप्रभावात् उपरि उत्थाय आदर–सम्मानं तस्य गरिमां च पालयितुं प्रयत्नं कुर्वन्तु, तत् उत्तमं भविष्यति। संसदस्य कलारम्भ-सत्रं राष्ट्रस्य जनहिताय सम्यक् रूपेण चलेत्, एतत् जनानां अपेक्षा तथा समयस्यापि याचना अस्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता