लोकसभा–अध्यक्षेन ओम बिरला–इत्येनेन ‘ऑल–वूमेन–बाइक–रैली’–इत्यस्मै हरितध्वजं प्रदर्शितम्
नवदिल्ली, ०८ मार्चमासः (हि.स.) — लोकसभा–अध्यक्ष: ओमबिरला तथा दिल्ली–मुख्यमंत्री रेखा गुप्ता–इत्येताभ्याम् अद्य अन्ताराष्ट्रिय–महिला–दिवस–अवसराय कनॉट–प्लेस-स्थले ‘ऑल–वूमेन–बाइक–रैली’–इत्यस्मै हरित–ध्वजं प्रदर्श्य प्रारब्धं कृतम्। अध्यक्ष: ओमबिरला X
अंतरराष्ट्रीय महिला दिवस पर कनॉट प्लेस में ऑल वूमेन बाइक रैली को हरी झंडी दिखाते लोकसभा अध्यक्ष ओम बिरला और दिल्ली की मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, ०८ मार्चमासः (हि.स.) — लोकसभा–अध्यक्ष: ओमबिरला तथा दिल्ली–मुख्यमंत्री रेखा गुप्ता–इत्येताभ्याम् अद्य अन्ताराष्ट्रिय–महिला–दिवस–अवसराय कनॉट–प्लेस-स्थले ‘ऑल–वूमेन–बाइक–रैली’–इत्यस्मै हरित–ध्वजं प्रदर्श्य प्रारब्धं कृतम्।

अध्यक्ष: ओमबिरला X–माध्यमे उवाच – “अस्मिन् आयोजने बहव्य: स्त्रियः उत्साहपूर्वकं भागं गृह्णन्त्य: साहसस्य आत्मविश्वासस्य महिला–सशक्तिकरणस्य च संदेशं दत्तवत्य:। भारतस्य स्त्रियः स्वतन्त्रता–संग्रामात् आरभ्य राष्ट्रस्य नव–निर्माणपर्यन्तं सर्वेषु क्षेत्रेषु प्रेरकं तथा सशक्तं नेतृत्वं दत्तवत्य:। अद्य देशस्य स्त्रियः पंचायतात् आरभ्य संसदपर्यन्त निर्णायकं योगदानं दत्वा विकसित–भारत–संकल्पाय नवीनां दिशां ददाति।”

मुख्यमंत्री रेखा गुप्ता X–पोस्ट–माध्यमे उवाच – “‘ऑल–वूमेन–बाइक–रैली’–मध्ये विविध–क्षेत्राणां प्रतिनिधित्वं कुर्वन्त्याः शताधिका: स्त्रियः एकसहैव मार्गे उत्थाय सशक्तं संदेशं दत्तवत्य: यत् नारी–शक्ति: एव विकसित–भारतस्य वास्तविक–प्रेरक–शक्ति: अस्ति। एषः उत्साहः आत्मविश्वासश्च परिवर्तनशील–भारतस्य दृश्यं दर्शयति, यत्र स्त्रियः सर्वेषु क्षेत्रेषु नेतृत्वं कुर्वन्ति तथा नवीनानि कीर्तिमानानि स्थापयन्ति।”

अस्मिन् अवसरे सांसदा: बांसुरीस्वराज:, कमलजीतसहरावत:, प्रियंका चतुर्वेदी, स्वातिमालीवाल: तथा नई–दिल्ली–नगर–पालिकापरिषद्–उपाध्यक्ष: कुलजीतसिंहचहल: च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता